________________
चौथा कर्मग्रन्थ
गुणस्थानों के स्थान में चौदह भूमिकाओं का वर्णन योगवासिष्ठमें बहुत रुचिकर
१. अज्ञानभूः सप्तपदा ज्ञभूः सप्तपदैव हि । पदान्तराण्यसंख्यानि भवन्त्यन्यान्यथैतयोः ॥ २ ॥ तत्राऽऽरोपितमज्ञानं तस्य भूमारिमाः शृणु । बीजजाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च ॥ ११ ॥ जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तकम्। इति सप्तविधो मोहः पुनरेव परस्परम् ।। १२ ।। श्लिष्टो भवत्यनेकाख्यः शृणु लक्षणमस्य च। प्रथमं चेतनं यत्स्या' - दनाख्यं निर्मलं चित्तः ॥ १३ ॥ भविष्यच्चित्तजीवादि नामशब्दार्थभाजनम् । बीजरूपं स्थितं जाग्रत् बीजजाग्रत्तदुच्यते॥१४॥ एषा ज्ञप्तेर्नवावस्था त्वं जाग्रत्संसृतिं शृणु । नवप्रसूतस्य परा-दयं चाहमिदं मम || १५ || इति यः प्रत्यय: स्वस्थस्तज्जाग्रत्प्रागभावनात्। अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः ॥ १६ ॥ पीवरः प्रत्ययः प्रोक्तो महाजाप्रदिति स्फुरन् । अरूढमथवा रूढं सर्वथा तन्मयात्मकम् ॥ १७॥ यज्जाग्रतो मनोराज्यं जाग्रत्स्वप्नः स उच्यते । द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः ॥ १८ ॥ अभ्यासात्प्राप्य जाग्रत्त्वं स्वप्नोऽनेकविधो भवेत्। अल्पकालं मया दृष्टमेवं नो सत्यमित्यपि ॥ १९ ॥ निद्राकालानुभूतेऽर्थे निद्रान्ते प्रत्ययो हि यः । स स्वप्नः कथितस्तस्य, महाजाग्रत्स्थितेर्हृदि ॥ २० ॥ चिरसंदर्शनाभावाद्प्रफुल्लवृहद्वपुः । स्वप्नो जाग्रत्तया रूढो महाजाग्रत्पदं गतः ॥ २१ ॥ अक्षते वा क्षते देहे स्वप्नजाग्रन्मतं हि तत्। षडवस्थापरित्यागे जड़ा जीवस्य या स्थितिः ॥ २२॥ - भविष्यदुः खबोधाढ्या सौषुप्ती सोच्यते गतिः । एते तस्यामवस्थायां तृणलोष्टशिलादयः ॥ २३ ॥ पदार्थाः संस्थिताः सर्वे परमाणुप्रमाणिनः ।
सप्तावस्था इति प्रोक्ता मयाऽज्ञानस्य राघव ॥ २४॥' (उत्पत्ति प्रकरण स. ११७)
Xxxvi
ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता । विवारणा द्वितीया तु तृतीया तनुमानसा ॥५॥ सत्त्वापत्तिश्चतुर्थी स्यात्ततो संसक्तिनामिका | पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता ॥ ६ ॥ आसामन्तस्थिता मुक्तिस्तस्यां भूयो न शोच्यते । एतासां भूमिकानां त्वमिदं निर्वचनं शृणु ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org