________________
तृतीयो विवेकः अश्रु नेत्राम्बु शोकाचः, नासास्पन्दाक्षिरक्षणः। मूर्धन घात-कोपायः, खग्लानिमिपातकृत् ॥ ४ ॥ स्वेदो रोमजलस्रावः, श्रमादेव्यंजनप्रहः । छायाविकारो वैवण्यं, क्षपादेदिग्निरीक्षणः ।। ४६ ॥ वाचिकोऽभिनयो वाचां, यथाभावमनुक्रिया। कर्मणोऽङ्ग रुपाङ्गश्च, साक्षाद् भावनमाजिकः ॥ ५० ॥ सात्त्विकः स्वरभेदाः, अनुभावस्य दर्शनम् ।
वर्णाद्यनुकियाऽऽहार्यः, बाह्यवस्तुनिमित्तकः ॥५१॥ इति श्रीरामचन्द्र-गुणचन्द्रविनिर्मिते नाट्यदर्पणसूत्रे वृत्ति-रस-भावभिनय
विचारस्तृतीयो विवेकः ॥ ३ ॥
अथ सर्वरूपक-साधारण-लक्षणनिर्णयः चतुर्थोविवेकः देव-भूप-सभा-भर्तृ-मुख्यानां मङ्गलाभिधा । नित्या रूपमुखे नान्दी, पदैः षड्भिरथाष्टभिः ॥ १॥ प्रवेश-निष्क्रमाक्षेप-प्रसादान्तरसङ्गतम् । चित्रार्थ रूपकं गेयं, पञ्चधा स्यात् कविध्र वा ॥ २ ॥ उत्तमा मध्यमा नीचा, प्रकृतिन स्त्रियोस्त्रिधा।। एककापि विधा स्व-स्व-गुणानां तारतम्यतः ॥ ३ ॥ शरण्यो दक्षिणस्त्यागी, लोकशास्त्रविचक्षणः। गाम्भीर्य-धैर्य-शोण्डीयं-न्यायवान् उत्तमः पुमान् ॥४॥ मध्यो मध्यगुणो नीचा, पापीयान् पिशुनोऽलसः । कृतघ्नः कलही क्लीवः, स्त्रीलोलो रूक्षवाग् जरः ॥५॥ लज्जावती मृदुर्धीरा, गम्भीरा स्मितहासिनी । विनीता कुलजा दक्षा, वत्सला योषिदुत्तमा ॥ ६ ॥ नरवन्मध्यमा-नीचे, नीचोऽपीश: कथावशात् । प्रधानफलसम्पन्नोऽव्यसनी मुख्यनायकः ।। ७ ।। तेजो विलासो माधुर्य, शोभा स्थैर्य गंभीरता । पौदार्य ललितं चाष्टी, गुणा नेतरि सस्वजाः ॥ ८॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org