________________
तृतीयो विवेका चापलं साहसं राग-द्वेषादेः स्वरिताऽदिमत् । पावेगः सम्भ्रमोऽतक्कर्षाद्, विकर्ताङ्ग-मनो-गिराम् ॥ ३२ ॥ प्रतिभानं मतिः शास्त्र-तर्काद् भ्रान्तिच्छिदादिकृत् । दोषेभ्योऽङ्ग-मन:-क्लेशः, व्याधिः स्तनित-कम्पवान् ॥ ३३॥ दृष्टाभासः स्मृतिस्तुल्य-दृष्टयादेधूनतिक्रिया । तिर्शानेष्टलाभादेः, सन्तुष्टिदेहपुष्टिकृत् ।। ३४ ।। क्षेपादेः प्रतिकारेच्छाऽमर्षोऽस्मिन् कम्पनादयः । व्याध्यादेमुत्युसङ्कल्प: मरुणं विकलेन्द्रियम् ।। ३५ ॥ प्रचंतन्यं प्रहारादे: मोहोऽत्राघूर्णनादयः । इन्द्रियाव्यापृतिनिद्रा, खेदादेमूर्धकम्पिनी ।। ३६ ।। सुप्तं निद्राप्रकर्षोऽत्र, स्वप्नायित-खमोहने । दुष्टेऽपराधान्नघण्यम्, प्रोग्र बन्ध-वधादिभिः ॥ ३७॥ हर्षः प्रसत्तिरिष्टाप्तेः, अत्र स्वेदाश्र-गद्गदाः । विषादस्तान्तिरिष्टस्यानाप्तेनिःश्वास-चिन्तनः ॥ ३८ ।। मनोविप्लुतिरुन्मादः, ग्रह-दोषरयुक्तकृत् । प्रापदः स्वान्तनीचत्वं, दैन्यं काावगुण्ठनः ॥ ३६ ।। व्रीडाऽनुताप-गुर्वादेः, प्रधाष्यं गात्रगोपकम् । घोराच्चकितता त्रासः, कायसङ्कोच-कम्पितः ।। ४० ॥ एकसम्भावनं तर्कः, वादादेरङ्गनर्तकः । मात्मन्याधिक्यधीर्गः, विद्याऽऽदेरन्यरीढया ॥४१॥ इष्टाभिमुख्यमौत्सुक्यं, स्मरणाद्यात् स्वराऽदिभिः । धाष्ट्रघादेविक्रियारोधोऽवहित्थाऽत्र क्रियान्तरम् ॥ ४२ ॥ जाड्यमिष्टादितः कार्याज्ञानं मौनानिमेषणः । कर्मानुत्साह आलस्य, श्रमाद्याम्भितादिभिः ॥ ४३ ॥ निद्राच्छेदो विबोधश्च, शब्दादेरङ्गभङ्गवान् । केषांचित् तु रसादीनाम्, अन्योन्यं हेतु-कार्यता ।। ४४ ।। वेपथु-स्तम्भ-रोमाञ्चाः, स्वरभेदोऽश्रु मूर्छनम् । स्वेदो वैवर्ण्य मित्याद्याः, अनुभावारसादिजाः ॥ ४५ ॥ भवादेर्वेपथुत्र-स्पन्दो वागादिविक्रियः । यत्नेऽप्यङ्गाक्रिया स्तम्भः हर्षादेहीं ! विषादवान् ॥ ४६ ॥ रोमाञ्चः प्रियदृष्टयादेः, रोमहर्षोऽङ्गमार्जनः । स्वरभेदः स्वरान्यत्वं मदादेहर्ष-हास्यकृत् ॥ ४७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org