________________
आश्वास: ]
रामसेतु प्रदीप - विमलासमन्वितम्
[ ७६
प्युपस्थित कार्यापेक्षयान म्लापनीयमिति भावः । सुजनमपि कीदृशम् । स्वभावतः शाश्वताहंकारम् । एवं प्रार्थनाभङ्गभिया निवर्तमानं पुनर्लाभसंशयेन कथमपि संमुखसंस्थापितचरणम् । अथागते सति वितिष्ठमानमप्रतिभया किमपि न ब्रुवाणं तथा चैवंविधः सुजनः प्रकृते राम एवेति न म्लापनीय इति भावः । प्रणयं कुर्वन्तं सुजनमिवेति केचित् । वस्तुतस्तु प्रणयन्तमभ्यर्थयन्तं सुजनं राममिव यशो न म्लापयतेति सहोपमा । तथा चौदास्ये सति रामो यशश्च म्लायेदित्यनुचितमिति भावः || ४ ||
विमला - वानरों ! तुम सब, याच्या करते हुये सुजनसदृश शाश्वत अहंकार - युक्त, ( तुम्हारी उदासीनता से ) लौटते हुये पग को पुन: ( तुम्हारे उद्योग की आशा से ) सम्मुख स्थापित करने वाले आगत एवं स्थिर यश को किसी भी प्रकार म्लान मत करो ||४||
कर्मेदमस्मदन्येषामसाध्यमेव, राघवस्त्वेकाकी न शक्नुयादिति कथं यशो म्लायेदि - त्युत्तरमाशङ्कय युष्मानपि विना राम एव कर्तुं समर्थः कुर्यादित्याहरक्खसवहदुव्वोज्झो कज्जारम्भो समुद्दलङ्कणगरुओ | पढमं चिअ रहुवइणा उवर हिअअ तुलिओ भरो व्व बिलइओ ॥१५॥ [ राक्षसवधदुर्षात्यः (रक्ष्यशपथ दुर्वाह्यः) कार्यारम्भः समुद्रलङ्घनगुरुः । प्रथममेव रघुपतिना उपरि हृदये तुलितो भर इव विलंगितः ॥ रघुपतिना कार्यारम्भः प्रस्तुतमारभ्यमाणकार्य मुपर्यर्थात्स्वस्य प्रथममेव विगलितो नियोजितः । कीदृक् । हृदयेन तुलितो मयेदमित्थं कर्तव्यमित्यध्यवसितः । एवं राक्षसवधेन द्वारेण दुर्घात्यो दुःखनिर्घात्यः । राक्षसवधस्यैव दुःसाध्यत्वादिति भावः । एवं समुद्रलङ्घनेन गुरुरतिशयितः । तस्यातिदुष्करत्वात् । तथा च युष्माकमुपेक्षायामपि समुद्रलङ्घन राक्षसवधयोः स्वकर्तव्यतयाध्यवसितत्वेन सीतामप्युद्धरेत् । ततः सुतरां - भवतामपकीर्तिरिति भावः । क इव । भर इव । यथा केनापि प्रथमं हृदये तुलितो मयेदमित्यमुद्वहनीयमित्यध्यवसितो भारः पश्चादुपरि स्कन्धादावारोप्यते तथेदमपीत्यर्थः । भरोऽपि कीदृक् । रक्ष्येणालङ्घनीयेन राजादिशपथेन दुर्वहनीय: । शपथभङ्गस्य दोषावहत्वात् । यद्वा सरक्षपथदुर्वाह्यः सरक्षे दानग्राहकादियुक्ते पथि दुर्वहनीयः । पूर्वनिपातानियमात्सशब्दस्य परनिपातः । एवं समुद्रस्य मुद्रा राजचिह्न - विशेषस्तत्सहितस्य लङ्घने देशाद्देशान्तरप्रापणे गुरुगौरवयुक्तः । स्वयं हृदयेन तुलितः कार्यारम्भो योग्यत्वाद्भवतामुपरि नियोजित इत्यर्थ इति केचित् ॥५॥
विमला - वानरों ! रक्ष्य शपथ से दुर्वहनीय, ( राजा की ) मुद्रा ( मुहर ) से युक्त, अतएव देश-देशान्तर में पहुँचाने में गौरवयुक्त, हृदय में तोले गये भार के समान, राक्षसवध से दुर्घात्य, समुद्रलङ्घन से गुरु, हृदय में करने के
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org