SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सेतुबन्धम् [ तृतीय निर्घोष वाला, धैर्य से भी पराक्रमयुक्त, अतएव गौरवपूर्ण, दन्तकान्ति से भी निर्मल अर्थ वाला ( वक्ष्यमाण ) वचन कहा ॥१-२॥ प्रथमं कर्तव्यकार्यानुकूलां कपिस्तुतिमाह धरणिधरणे भुअ च्चिअ महणम्मि सुरासुरा खम्मि समद्दा । हन्तम्वम्भि दहमुहे एहि तुम्हे त्थ महुमहस्स सहाआ ॥३॥ [धरणिधरणे भुजा एव मथने सुरासुराः क्षये समुद्राः। हन्तव्ये दशमुखे इदानीं यूयं स्थ मधुमथनस्य सहायाः ॥] मधुमथनस्य वराहमूर्त्या भूमिधारणे बाहव एव सहाया वृत्ता न परापेक्षाभूत् । समुद्रमथने सुरा असुराश्च सर्व एव प्रलये कार्ये समुद्रा एव । जगत्प्लावकत्वात् । इदानीं सीतोद्धारे दशमुखे हन्तव्ये यूयमेव सहकारिणः स्थ वर्तध्वमित्यर्थः। तथा च तत्तत्कायं तत्तत्कार्ययोग्यसहकारिभिः साधितमिदं तु समुद्रबन्धनानुकलपर्वता. हरणसमर्थभवदायत्तमेवेति भावः। तथा च भवद्भिरौदास्यमाचरणीयं चेत्तदा तत्तत्कठिनकर्मज्ञातसारभुजादिद्वारव साधयेत् । भवतां लज्जामात्रं स्यात् । कार्यमपि तत्तत्सकलसाधारणमासीत् । इदं तु रावणवधरूपत्वेन साधारणमसाधारणं तु सीतालाभरूपत्वेन प्रभोरिति तात्पर्यम् ॥३॥ विमला-वानरों ! ( वराहरूपी ) मधुमथन के भूमिधारण के समय केवल उनके भुज, समुद्रमथन के समय सुर-असुर, प्रलय कार्य में समुद्र सहायक हुआ था किन्तु इस समय दशमुख वधरूप कार्य में तुम्हीं लोग उनके सहायक हो ॥३॥ वनेचराणामस्माकं किमत्र प्रयोजनमित्यमीषामुत्तरमाशय यशोयाचनं चावश्यरक्षणीयमित्याह मा सासनसोडोरं कह वि णि प्रत्तन्तसमुहसंठविअपप्रम् । प्रावित्थक्कन्तं पणअन्तं व सुअणं परुम्हाह जसम् ॥४॥ [मा शाश्वतशौटीयं कथमपि निवर्तमानसंमुखसंस्थापितपदम् । आगतवितिष्ठमानं प्रणयन्तमिव सुजनं प्रम्लापयत यशः ॥] हे कपयः ! यूयं यशो मा प्रम्लापयत मा मलिनयत । यशः कीदृक् । शाश्वतं सार्वदिकं शौटीर्यमहंकारो यस्मात् । तथा च यशश्च्युतावहंकारश्च्यवत इति भावः । ‘एवं भवतामौदास्येन निवर्तमानं सत्कष्टसृष्ट्या भवदीयोद्योगसंशयेन संमुखे संस्थापितं पदं स्थानं येन । अत एवागतं सद्वितिष्ठमानं स्थिरम् । तथा च भवद्भिः समीपति यशो नोपेक्षणीयमिति भावः । कमिव । प्रणयन्तं किमपि याचमानं सुजन मिव । यथा याचमानः सुजनो न म्लानीक्रियते कि तु तदभ्यथितं संपाद्यते तथा यशोऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy