________________
तृतीय आश्वासः अथ कपीन्प्रति सुग्रीवस्योत्तेजनवचनमाहतो ते कइमाअङ्गे रूढविसाअमअभाविओमीलन्ते । आलाणक्खम्भेसु व बाहूसु सिलाअलठ्ठिएसु णिसणे ॥१॥ आहासइ सुग्गीवो णिअअरवाहि फडणिन्तजसणिग्योसम् । धोराहि सारगरु दन्तुज्जोआहि णिम्मलत्थं वअणम् ॥२॥
(जुग्गअम् ) [ततस्तान्कपिमाताङ्गान्रूढविषादमदभावितानवमीलतः । आलानस्तम्भेष्विव बाहुषु शिलातलस्थितेषु निषण्णान् ॥ आभाषते सुग्रीवो निजकरवात्स्फुटनिर्यद्यशोनिर्घोषम् । धैर्यात्सारगुरुकं दन्तोड्योतान्निर्मलाथं वचनम् ।।
(युग्मकम् ) ततस्तेषामप्रतिभादर्शनानन्तरं तान्स्तम्भितान्कपीनेव मातङ्गान्हस्तिनः सुग्रीवो वचनमाभाषत इत्यग्रिमस्कन्धकेनान्वयः। कथंभूतान् । रूढः समुद्रलङ्घनं कथं स्यादिति विषाद एव मदस्तेन भावितान्संबद्धान् । अत एवावमीलतो मुकुलितलोचनान् एवं शिलातलस्थितेष्वालानस्तम्भेष्विव बाहुषु निषण्णान् । विषण्णाः कपयो बाहू पश्चादुद्दण्डयित्वा तदवष्टम्भेन दृष्टी मुकुलयित्वा तिष्ठन्तीति स्वभावः । तत्र बाह्वोः स्तम्भत्वमुत्प्रेक्ष्य कपीनां मातङ्गत्वमुक्तमिति रूपकम् । मातङ्गोऽपि मदोत्पत्तिदशायां मीलदृष्टिरालानस्तम्भे निषण्णः क्रियत इत्यर्थः। वचनं कीदृक् । वदतः सुग्रीवस्य निजको रव एव स्फुटस्ततोऽपि स्फुटं निर्यन् ‘साधु सुग्रीव ! स त्वं सम्यगभिधत्से' इतिरूपो निर्घोषो यत्र तत् । तथा च कपीन्प्रत्युत्तेजनवचने सुग्रीवस्यैव यशः प्रकाशत इत्यर्थः । एवं धैर्य मेव तस्य बलेन' सारेण गुरुकं यथा बलप्रकर्षस्तथानुद्ध तौ धैर्यस्यैव प्रकर्षः। तथा च ततोऽपि सारेण सत्त्वेन गुरुकमादरणीयम् । एवं च दन्तोद्दयोत एव तस्य निर्मलस्ततोऽपि निर्मलः सुश्लिष्टोऽर्थो वाच्यो यत्र तत् । तथा च गभीरं सधैर्यमतिव्यक्तमूचिवानित्यर्थः ।। युग्मकम् ॥२॥
विमला-तदनन्तर उत्पन्न' एवं प्रवृद्ध विषादरूप मद से परिपूर्ण अतएव नेत्रों को निमीलित किये, शिलातल पर स्थित आलान-स्तम्भ-से बाहुओं पर टेक दिये बैठे हुये कपिगजों के प्रति सुग्रीव ने अपने रव से भी स्फुट निर्गत यश-सम्बन्धी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org