SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम् [ ६५ नीरयोः' इति कोषे श्रूयमाणत्वात् ) यहाँ नदीमुख के द्वारा समुद्राभिमुखी होकर (तरङ्गभिघात) से पीछे लौटती हुई, नायिका के समान आचरण करती है ||२६|| पुनर्नदीसंघट्टमाह सहस्स पडिउम्त्रणणार सम्त पल अमेहसमदू सहणाअरसन्तअम् । पेलवेण पवणेण महरसंचारिअं मउअमग्रखलन्तं व महुरसं चारिअम् ॥ २७ ॥ [नदीसहस्रपरिचुम्बनज्ञातरसान्तरं प्रलयमेघसमदुःसहनादरसन्तम् । पेलवेन पवनेन मधुरसंचारितं मृदुमदस्खलन्तमिव मधुरसं चारितम् ॥] नदीसहस्रपरिचुम्बनेन ज्ञातं रसान्तरं जलान्तरं यत्र तम् । नदीसंगमेन ज्ञायते नद्या जलमिदमित्यर्थः । यद्वा नदीसहस्रस्य परिचुम्बने संगमे ज्ञातो रसो जलं यस्य तम् । इदं समुद्रस्य जलमिति बुद्धि विषय इत्यर्थः । एवं ततं विस्तीर्णम् । एवं प्रलयमेघसदृशेन नादेन रसन्तं शब्दायमानम् । 'सुवर्णेन धनी' इतिवत् । प्रलयमेघध्वनितुल्य जलध्वनि मित्यर्थः । यद्वा प्रलयमेघसमनादेन रसत्कं जलं यस्य तं प्रलयमेघ - समनादरसत्कम् । एवं कोमलेन पवनेन मधुरं यथा स्यात्तथा संचारितम् । कमिव । मधुरसं मदिरारसं चारितं भोजितं पुरुषमिव । पुरुषं किंभूतम् । मृदुना मदेन स्खलन्तं पतन्तम् । 'चर गतौ भक्षणे च' इति धातुः । तथा च यथा निपीतमद्य मदमार्दवे मन्दं स्खलति तथा समुद्रोऽपि मन्दानिले मन्दं चलतीत्युपमा । एवं मतोऽपि नदीसहस्रप्रायसतरङ्गकामिनीसहस्रपरिचुम्बनेन ज्ञातं शृङ्गारादिरसान्तरं येन तादृशः प्रलय मेघतुल्यशब्दा भवत्युच्चैः शब्दायमानत्वादिति भावः । वस्तुतस्तु मन्दसंचारे परमुत्प्रेक्षेयम् । तथा हि कमिव । मधुरसं भोजितमिव । अत एव मृदुमदेन स्खलन्त - मिव । काकाक्षिगोलकन्यायादिवशब्दस्योभयत्रान्वयः । तथा च पवनेन मधुरं चलतोति नार्थः । किं तु मदिरारसं पीतवानतो मृदुमदेन मन्दं स्खलतीति । सर्वमन्य त्समानम् । 'मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसेऽपि च' इति विश्वः ||२७|| विमला - सहस्रों नदियों के परिचुम्बन ( सङ्गम) से रसान्तर ( नदीसम्बन्धी अन्य प्रकार का जल ) का अनुभव करता, प्रलयमेघ के समान दुःसह नाद से शब्दाय + मान यह समुद्र कोमल पवन से मन्द मन्द चलता हुआ उस पुरुष की समता कर रहा है, जो सहस्रों नदियों के समान नायिकाओं के परिचुम्बन से रसान्तर (शृङ्गाराबि रस) का अनुभव करता है, प्रलयमेघ के समान दुःसह नाद से शब्दायमान होता है तथा मदिरारस पीकर मत्त हो मृदु मद से मन्द मन्द लड़खड़ाता चलता है ॥२७॥ ५ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy