SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६६ ] सेतुबन्धम् [द्वितीय शेषनागमाहकसणमणिच्छाप्रारसरज्जन्तोवरिपरिप्यवन्तप्फेणम् । हरिणाहिपङ्कअक्खलिअसेसणीसासजणिअविअडावत्तम् ॥२८॥ [कृष्णमणिच्छायारसरज्यमानोपरिप्लवमानफेनम् । हरिनाभिपङ्कजस्खलितशेषनिःश्वासजनितविकटावर्तम् ॥] कृष्णमणीनामिन्द्रनीलादीनां छाया कान्तिः सैव रसो नीलिकादिद्रवस्तेन रज्यमाना वर्णान्तरं प्राप्ता उपरिप्लवमानाः संचरन्तः फेना यत्र । तथा च गभीरजलमूल- , स्थमणिच्छायानामतिदूरोपरिस्थफेनसंबन्धेन मणीनामुद्दामतेजस्वित्वं जलस्य च स्वच्छत्वमिति भावः । एवं हरिनाभिपङ्कजे स्खलितेन शेषनिःश्वासेन जनितो विकटावर्तो यत्र तम् । तथा चाधोमुखस्य शेषस्य कोडेशयोत्तानहरिनाभिकमले तलवतिनि स्खलितो नि:श्वास ऊध्वं धावन्नुपरि जलावतं जनयतीत्यर्थः । तेनाशेषनिःश्वासावरोधकत्वेन कमलस्य मूले स्खलितस्योपरि विकटावर्तजनकत्वेन' निःश्वासस्य तादृशावर्ताधिकरणत्वेन समुद्रस्य च महत्त्वमुक्तम् ॥२८॥ विमला-यहाँ समुद्र में तैरते हुए फेन, (बहुत नीचे स्थित) इन्द्रनीलादि मणियों की कान्ति से नीले वर्ण के दिखायी देते हैं तथा शेषनाग का निःश्वास जो विष्ण के नाभिकमल से टकराकर ऊपर की ओर वेग से आता है तो समुद्र के जल में विकट आवर्त (भँवर) प्रादुर्भूत हो जाता है ॥२८॥ सभरङ्ग विद्दुमपल्लवप्पहाघोलिरसासभरङ्गमम् । रविराइ धरणिप्रलं व मन्दराअड्ढणदूरविराइप्रम् ॥२६॥ [सतरङ्गकं विद्रुमपल्लवप्रभाघूर्णमानशाश्वतरङ्गकम् । रविराजितं धरणितलमिव मन्दराकर्षणदूरविराविकम् ॥] सह तरङ्गेण वर्तते यस्तम् । यद्वा सगराङ्गकं सगरं विषसहितमङ्गकं यस्य तम् । सगराङ्गजं वा सगरस्याङ्गजं पुत्रमिव । तत्खानितत्वादित्यर्थः । एवं विद्रुमस्य पत्त्राणां प्रभाभिषूर्णमान शाश्वतं सार्वदिकं रङ्गकं लौहित्यं यत्र तम् । विद्रुमलौहित्यस्य जले संक्रमात् । यद्वा विद्रुमपल्लवेषु घूर्णमानप्रभाः संचरत्कान्तयः शाश्वता रङ्गका धातुविशेषा यत्र तम् । पूर्वानेपातानियमात् । एवं रवः शब्दस्तद्विशिष्टा रविणो हंसादयस्तै राजितं शोभितम् । एवं मन्दरपर्वतस्य मथनसमये आकर्षणेन परितवालनेन दूरं व्याप्य विरावि शब्दयुक्त कं जलं यस्य तम् । मन्दरभ्रमणेन ध्वनिगाम्भीर्यादस्य महत्त्वमुक्तम् । अथवा दूरविराजिकं मन्दरचालनेन दूरं व्याप्य विराजि समुच्छलत्कं जलं यस्येत्यर्थः । किमिव । धरणीतलमिव । कीदृशं भूतलम् । सकराङ्गक सह करेण राजग्राह्यण वर्ततेऽङ्गं शरीरं यस्य तत् । तथा भूमौ करसत्त्वात् । विशिष्टो द्रुमो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy