SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६४] सेतुबन्धम् [द्वितीय निजकविषानलप्रतापित मुक्तानिकरैरर्थात्स्फुटित्वा देहे लग्न: परिघूर्णमाना विषधरा यत्र तम् । तथा च निजनिःश्वासविषानलसंबन्धस्फुटितवपुर्निपतितमुक्ताभितापहेतुक परिभ्रमणेन सर्वत्र मुक्तासत्त्वेन तथैव पुनस्तथाविधमुक्तासंबन्धनिबन्धनोऽभिताप इत्यस्थैर्येण भुजङ्गानां समुद्रस्य मुक्तानवच्छिन्न देशराहित्यमुक्तम् । वस्तुतस्तु निजकविषानल प्रतापिता अत एव शीतल तया मुक्तानिकरे परिघूर्णमाना विषधरा यत्र तमित्यर्थः । तेन तथाविधप्रौढविषमहासर्पसत्त्वं तदभितापनिवर्तनक्षममुक्तासत्त्वं च सूचितम् । एवं पूर्व निपातानियमेन प्रकटो व्यक्तो यो मीनानां गतिमार्गस्तत्र शेवालरादितस्ततः पतितैरवमलिनः श्यामीकृतः। छन्न इति यावत् । मणिरूपशिलानां संघातो यत्र तम् । अत्र समुद्रशेवालानां प्रान्तद्वये पातान्मत्स्यादीनां संचारपथस्य प्रकटत्वेनाकारस्य महत्त्वमुक्तम् ॥२५॥ विमला—यहाँ (समुद्र में) सर्प (अपने) विषानल से प्रतप्त हो (शीतलता प्राप्ति के लिए) मुक्तानिकर में घूम रहे हैं। दोनों पार्श्व में पड़े हुए सेवारों से मीनों का संचारपथ प्रकट है और उन ( सेवारों) से मणिरूप शिलाओं का समूह (अवमलिन) श्याम हो गया है ॥२५॥ लक्ष्मीसंबन्धमाहसरिसंकुलं महुमहवल्लहाइ लच्छीम सारसरिसं कुलम् । महिलाइ गइमुहपत्थिरोणिप्रत्तिअवेलामहिलाइमम् ।।२६।। [सरित्संकुलं मधुमथनवल्लभाया लक्ष्म्याः सारसदृशं कुलम् । महीलालितं नदीमुखप्रस्थितापनिवृत्तवेलामहिलायितम् ।।) सरिद्भिः संकुलं व्याप्तम् । नदीनां तत्रैव प्रवेशादित्यर्थः । एवं हरिप्रियाया लक्ष्म्याः सारं श्रेष्ठं सदृशं हरिप्रियायोग्यम् । अथवा सारो धनं तेन सदृशं योग्यम् । मक्षम्या धनवत्त्वेन तत्पितुरपि तथैवौचित्यादिति भावः । एवंभूतं कुलं वंशम् । पितृरूपत्वादित्यर्थः । एवं मह्यां लालितं घृष्टम् । तदधिष्ठितत्वात् । 'महीलागितं' इति वा । मह्यां लागितं योगितमर्थादीश्वरेण । एवं नदीमुखेन प्रस्थिता समुद्राभिमुखी अथापनि वृत्ता तत्तरङ्गाभिघातेन पश्चादभिमुखी वेला जलं महिलायिता महिलावदाचरन्ती यत्र तम् । तथा च स्पृष्टापसृतक व्यापारेण नायकमालिङ्गयापसरन्ती नायिकेव वेलापि समुद्रमभिलीयापसरतीति कल्लोलप्रकर्षः । यद्वा तथाभूतवेलामहिलाजितं तथाभूता वेलैव महिला तथा जितं पुनरतिक्रान्तम् । तत्रैव तज्जलप्रवेशादित्यर्थः । वेला तत्तीरनीरयोः' इति कोषः ॥२६॥ विमला-यह समुद्र नदियों से व्याप्त है तथा हरिप्रिया लक्ष्मी का श्रेष्ठ एवम् अनुरूप कुल है। यह मही का स्निग्ध प्रिय है । (वेला (जल) ('वेलातत्तीर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy