________________
५६ ] सेतुबन्धम्
[ द्वितीय एवं विमलानां जलानामभ्यन्तरे स्थितं रत्नसमूह वहमानम् । कीदृशम् । निष्पन्नं निष्पादितं सुखं यैस्तादृशा आलोकास्तेजांसि यस्य तम् । जलाभ्यन्तरवर्तिरत्नादिचाकचक्यं दृष्ट्वा लोकानामानन्दो जायत इति दृष्टमेव । सूर्यतेजःसंबन्धादत्यच्छजलाभ्यन्तरवर्तिरत्नादीनां व्यवहितानामपि सांनिध्यमधिगम्यते । तदुत्प्रेक्षते-किंभूतं रत्नसंघातम् । रविणा करेण तेजसावलम्बितः करस्तेजो यस्य तथाविधम् । अत एव दरकृष्टमीषदाकृष्टमिव । तथा च सूर्यतेजसा रत्नतेजःसंबन्धे सांनिध्यभानादाकृष्टमिव रत्नादि भासत इति भावः । अन्योऽपि लोको जलाभ्यन्तरे मज्जन्नन्येन समुत्पादितसुखदर्शन: करे करेणालम्ब्याकृष्यत इति ध्वनिः । एतेनाच्छजलत्वमुक्तम् ॥१२॥
विमला-समुद्र विमल जल के भीतर ऐसे रत्नसमूह को रखता है जो अपने आलोक (१-तेज, २-दर्शन) से सुख पैदा करता है तथा सूर्य ने अपने कर (१-तेज, २-हाथ) से उसके कर (१-तेज, २-हाथ) को अवलम्बित (1-सम्बद्ध, २-गृहीत) कर मानों उसे कुछ ऊपर उठा लिया है ॥१२॥ पुनर्वाडवानल माह --
महणासाप्रविमुक्कं उच्छित्तामविसङ्खलाणलणिवहम् । वासुइमुहणीसन्दं वडवामुहकुहरपुजिन वहमाणम् ।।१३।। [मथनायासविमुक्तमुत्क्षिप्तामृतविशृङ्खलानलनिवहम् । वासुकिमुखनिःस्यन्दं वडवामुखकुहरपुञ्जितं वहमानम् ॥]
एवं वासुकिमुखस्य निःस्यन्दं विषक्षरणरूपम् । वडवामुखकुहरे पुञ्जितं वर्तुलीभूतं वडवानलतया व्यवस्थितं धारयन्तम् । कीदृशं मुखनिःस्यन्दम् । मथने आयासेन विमुक्तं त्यक्तम् । एमुत्क्षिप्तमुत्थितं यदमृतं तेन विशृङ्खल इतस्ततश्चारी अनलनिवहो यत्र तथाभूतम् । सुधानामुत्थितत्वेन तत्सांनिध्याभावाद्विषाग्नीनां विशृङ्खलत्वम् । सुधासंनिधौ गरलप्रादुर्भावाभावात् । तथा च समुद्रमथनकालीनमन्दरपरिघट्टनसमुत्थश्रमसमुद्गतनेत्रीभूतवासुकिमुखविषस्तोम इव वडवाग्निरित्युत्प्रेक्षितम् । इवार्थस्य व्यङ्गयत्वात् । यद्यपि विषस्य स्वभावतः श्यामत्वं तथापि ज्वलद्रूपस्य वह्निसाम्यमिति भावः ।।१३।।
विमला-समुद्र के मथने की थकान से वासुकि के मुख से निकला हुआ विष तथा अमृत के निकल आने से (अमृत का सान्निध्य न रह जाने के कारण) अनियन्त्रित अनलपुञ्ज वडवामुखरूप कुहर में एकत्र हो गया, उसे समुद्र वडवानल के रूप में धारण किये हुए है ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org