________________
५०]
सेतुबन्धम्
[द्वितीय
कल्लोलानाह
अप्फुण्णविद्दुमवणे गुप्पन्तपढित्थिरे सलिलकल्लोले । मन्दरगूढप्पहरे प्रज्ज वि संखालोहिए व्व वहन्तम् ॥४॥ [आक्रान्तविद्रुमवनान्व्याकुलपरिस्थिरान्सलिलकल्लोलान् । मन्दरगूढप्रहारानद्यापि संस्त्यानलोहितानिव वहन्तम् ॥]
एवं सलिलकल्लोलान्वहन्तम् । कीदृशान् । आक्रान्तमाकृष्टमाच्छादितं वा विद्रुमवनं यैस्तान् । एवं व्याकुलानितस्ततोवर्तिनः सतः परिस्थिरान् । कदाचित्स्थिरतया भासमानानित्यर्थः । उत्प्रेक्षते-कानिव। अद्यापि संस्त्यानं विष्टब्धं लोहितं रुधिरं यत्र तान् । मन्दरस्य गूढानभ्यन्तरवर्तिनः प्रहारानिव । प्रहारस्तत्स्थानम् । तथा च लौहित्येन विद्रुमवनस्य रुधिरेणोच्छूनतया प्रसारितया च प्रहारस्थानस्य कल्लोलेन साम्यम् । व्याकुले पुरुषे परिस्थिरानित्यत्राप्यभ्यन्तरप्रहारे शोणितं वर्तुलीभूय तिष्ठतीति स्वभावः ॥४॥
विमला-विद्रुमवनों को आच्छादित की हुई, चञ्चल होकर भी कदाचित स्थिर भासित होती तरङ्गों को धारण किया हुआ समुद्र ऐसा प्रतीत होता है कि मानों मन्दराचल ने समुद्रमथन के समय) उसके जहाँ-जहाँ भीतरी भागों में चोट पहुँचाई थी वहाँ-वहाँ आज तक रुधिर जमा हुआ है ॥४॥ अथ नदीजलप्रवेशमाहमहलघणविष्पइण्णं जलणिवहं भरिअसमलणहमहिविवरम् । णइमुहपह्नत्थन्तं अप्पाण विणिग्गअं जसं व पिअन्तम् ।।५।। [मुखरघनविप्रकीणं जलनिवहं भृतसकलनभोमहीविवरम् । नदीमुखपर्यस्यन्तमात्मनो विनिर्गतं यश इव पिबन्तम् ।।]
आत्मनो विनिर्गतं बहिर्भ तं जलसमूहं पिबन्तं क्रोडीकुर्वन्तम् । आत्मनिर्गतं पयः स्वेदप्रायमपेयमपीत्यपेरर्थः । यद्वा आत्मनिर्गतमपि पातालजलं पिबन्तमित्यपिना सूचितमनुक्तम् । तथा च सकलजलविश्रामभूमिमिति भावः । तदुक्तम्'पयसामर्णव इव' इति । जलनिवहं किंभूतम् । मुखराः शब्दायमाना ये घना मेघास्तविप्रकीर्णमितस्ततो विक्षिप्तम् । अत एव भृते व्याप्ते महीनभोविवरे येन । वष्टिकाले भूम्याकाशव्यापनादित्यर्थः । एवं नदीमुखेन नदीप्रवेशस्थानेन पर्यस्यन्तमितस्ततो गच्छन्तम् । समुद्रतरङ्गाभिघातादिति भावः । अथ च समासोक्त्या समुद्रस्य नायकत्वं नदीनां च नायिकात्वं प्रतीयते। यथा ह्यन्योऽपि नायको नायिकामुखेन विक्षिप्यमाणमात्मन एव निर्गतं जलं मधु तन्निवहं पिबति । तदपि मुखरेण रतिकालीनशब्दं कुर्वता नायकेनैव विप्रकीणं भवति । एवं पानकाले स्खल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org