________________
आश्वासः ]
रामसेतुप्रदीप - विमलासमन्वितम्
[ se
पुनः कीदृशम् । गगनस्य प्रतिबिम्बमिव । एतेन प्रतिबिम्बस्य प्रकृतिसमानाकारत्वादाकाशतौल्यम् । धरण्या निर्गममिव । निर्गम्यतेऽनेनेति निर्गमो द्वारम् । येन धरणी निर्गता । तथा च निर्गमखातत्वेन गाम्भीर्यं भूम्यधिक परिमाणवत्त्वं च । दिशां निलयो गृहमिव । तथा च दिगपेक्षयाऽप्यतिव्यापकत्वम् । भुवनस्य मणिघटितभित्तिमिव । तडिममवच्छेदकभित्तिभागः । तथा च स्वभावान्मर्त्यपातालव्यापिनोऽपि कल्लोलद्वारा गगनव्यापकत्वं चतुर्दिगवस्थितस्य क्रोडीकृतत्रिभुवनत्वं च । 'डिमं कुट्टिममिवेति त्रिभुवनाश्रयप्राङ्गणत्वम्' इति कश्चित् । प्रलयस्य सावशेषजलविच्छर्दमिव । विच्छदः समूहः । तावता विश्वप्लावकत्वं समुद्रस्य प्रतीयते । सर्वत्रोत्प्रेक्षा । ' तडिमं कुट्टिमे भित्तौ' इति कोषः ॥२॥
विमला - वह समुद्र मानों गगन का प्रतिबिम्ब, धरणी का निकलने का द्वार, दिशाओं का गृह, भुवन का मणिनिर्मित कुट्टिम ( फर्श ) और प्रलय के समय का बचा हुआ जलसमूह है || २ ||
भमिरुम्भडकल्लोलं योरक राहग्रदिसा मुहोत्यप्रसलिलम् । सासमएण बहुसो लोहिज्जन्तं विसागएण व सरिणा ॥३॥ [भ्रमणशीलोद्भटकल्लोलं स्थूलकराहतदिङ्मुखावस्तृतसलिलम् । स्वाश्रयमृगेण (शाश्वतमदेन) बहुशः क्षोभ्यमाणं दिग्गजेनेव शशिना ।। ]
पुनः कीदृशम् । स्वमाश्रयो यस्य स स्वाश्रयस्तादृशी मृगो यस्य तेन शशिना बहुशः क्षोभ्यमाणम् । चन्द्रोदयेन तरङ्गोत्थानात् । केनेव । दिग्गजेनेव । यथा दिग्गजेन श्वेतत्वादैरावतेन बहुधा क्षोभ्यते । दिग्गजेन कीदृशेन । शाश्वतः सावं fast मदो यस्य तेन । एवं भ्रमणशीला आवर्तीभूता उद्भटाः कल्लोला यस्य तम् । एवं स्थूलो विस्तीर्णः करः किरणस्तेनाहतानि स्पृष्टानि अत एव दिङ्मुखेष्ववस्तृतानि सलिलानि यस्य तम् । चन्द्रोदयेन सावर्त गगन दिग्व्यापिजल शालित्वादित्यर्थः । गजपक्षे करः शुण्डा तथाऽऽहतानि ताडितानीति व्याख्येयम् । अन्यत्तुल्यम् । शुण्डाहतजलानां भ्रमणशील त्वाद्दिग्गामित्वाच्वेति भावः || ३||
विमला —– जैसे शाश्वतिक मद वाले दिग्गज ( ऐरावत ) से बहुश: वह क्षुब्ध किया जाता है और उस (ऐरावत) के स्थूल कर (ड) से ताडित हो उसका जल गगन - दिग्व्यापी हो जाता है वैसे ही मृगाङ्क चन्द्रमा से क्षुब्ध किया जा रहा है और उसके स्थूल कर ( विस्तीर्ण किरण) से स्पृष्ट हो उसका जल गगन - दिग्व्यापी हो रहा है और वह सावर्त प्रचण्ड तरङ्गों से युक्त हो सुशोभित है ॥३॥
४ से० ब०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org