________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[५८३
युद्धाय भ्रामिता अवभग्ना विमुखा रथा यत्र । एवम्--एकपदेनकोपक्रमेण वलिता वक्रीभूता योधाः पत्तयो यत्र । तथा-मण्डल्यां गतिविशेषे दत्ता: प्रेरितास्तुरगा यत्र । मण्डलीगत्येव परावर्तिताश्वमित्यर्थः । तेन हस्त्यश्वरथपादातरूपचतुरङ्गबलपरावृत्तिरुक्ता । केचित्तु भ्रमितं पश्चाद्गतमिति व्याख्याय पलायनपरतयैव स्कन्धकमिदं व्याचक्षते । एतदनुसारेणानिमानिममपि तथेति स्फुटत्वान्न व्याख्यातम् ॥६६॥
विमला-( लज्जा का हेतु होने से पलायन का अनौचित्य सोच कर ) निशाचर सेना युद्ध के लिये पुन : घूम पड़ी। भागे हुये गजों को युद्ध सम्मुख कर दिया, विमुख हुये रथों को युद्ध के लिये घुमा दिया, पैदल सैनिक एकमुख मुड़ गये तथा घोड़ों को मण्डली ( गतिविशेष ) से लौटा दिया ।।६।। अथ पुनः पलायनमाह
अमरिसविस्थक्कन्ता वि दलाअन्ति भमिऊण गलिआमरिसा। ईसिविअत्तच्छूडा णिन्भीप्रल्लीणवाणरा रअणि ॥७॥ [ अमर्षवितिष्ठमाना वि(अपि)पलायन्ते भ्रमित्वा गलितामर्षाः ।
ईषद्विवृत्तक्षिप्ता निर्भीतालीनवानरा रजनीचराः ।।] निर्भीता अत एवालीनाः संगता वानरा येषां ते रजनीचरा युद्धाय ईषद्विवृत्ताः परावृत्ता अथ क्षिप्ताः प्रेरिता: सन्तः। कपिभिरित्यर्थात् । पुनरपि भ्रमित्वा परावृत्य पलायन्ते । किंभूताः । प्रथमममर्षेण वितिष्ठमाना विलम्बिता अनन्तरं गलितामर्षा ईर्ष्याशून्याः । प्राणकातरत्वादिति भावः ।।७।।
विमला-रजनीचर युद्ध के लिये थोड़ा लौटे और ईष्यावश कुछ समय तक अड़े भी, किन्तु निर्भक वानरों के भिड़ने पर दब कर ईर्ष्याशून्य हो वे पुनः भाग खड़े हुये ॥७०॥ अथ पलायनावस्थामाह -- रहसंदाणिअतुर अं तुरङ्गमोरथलक्खलिअपाइक्कम् । पाइक्काबलि अगअं गअभज्जन्तरहसंकुलं वलइ बलम् ॥७१॥ [ रथसंदानिततुरगं तुरङ्गमोरःस्थलस्खलितपदातिकम् ।
पदात्यावलितगजं गजभज्यमानरथसंकुलं वलति बलम् ।।] निशाचराणां बलं वलति घूर्णते । किंभूतम् । रथैः संदानिता मिलितास्तुरगा यत्र । एवम् --तुरङ्गमाणामुरःस्थलात्स्खलिता घटिताः पदातयो यत्र । पदातिभिरावलिताः पृष्ठे तुरङ्गमातिक्रमादुपरुद्धा गजा यत्र तत् । गजैर्भज्यमाना ये रथास्तैः संकुलमेकीभूतम् । गजै रथा रथैरश्ववारास्तैः पत्तय: पत्तिभिश्च गजा उपर्युपरि पतित्वातिक्रान्ता इति चतुरङ्गबलविपर्यास उक्तः ।।७१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org