________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
रामसतुप
तात्पर्यम् । महापथशब्दस्य तु श्मशानवाचकत्वं न शङ्कनीयम् । प्रहतपदसंनिधा-. नात् । नहि श्मशानं जनसञ्चारघृष्टं भवतीति भावः ॥५८॥
विमला-बड़ी-बड़ी नदियों के भी प्रवाह तत्काल ही नित्य चालू मार्ग के समान' हो गये, क्योंकि वानरों ने दोनों तटों को अपने पैरों से ऐसा रौंदकर तोड़फोड़ डाला कि उनके सामने वाला थोड़ा-सा भाग आने-जाने भर को ही रह गया और नदियों का जल उनके पेटों में प्रविष्ट हो अत्यन्त कम हो गया एवं सैन्य- . संचार से समस्त ऊबड़ खाबड़ (प्रदेश) सम हो गया ॥५८।। अथ मलयप्राप्तिमाहजलहर णिद्दाअन्तं पाअवगहणेसु सिसिरणिद्दाअन्तम् । सइ दुद्दिणसामल पत्ता भग्गधुप्रचन्दणरसा मलग्रम् ॥५६॥ [ जलधरनिर्दावान्तं पादपगहनेषु शिशिरनिद्रायन्तम् ।
सदा दुर्दिनश्यामलतं प्राप्ता भग्नधुतचन्दनरसा मलयम् ॥] ते मलयं प्राप्ताः । किभूताः । भग्ना धुतस्य चन्द्रस्य रसा भमिस्ते । कपिभिः स्वभावाच्चन्दनान्दोलने कृते तत्तटभूमिर्भग्नेत्यर्थः । मलयं किंभूतम् । जलधरेण निर्दावोऽन्तः स्वरूपं यस्य तम् । नित्यं मेघाधिष्ठानात्तज्जलेन दावनाशादिति भावः । यद्वा जलगृहनिर्दावान्तं जलग्रहेण समुद्रेण निर्दावोऽन्तः प्रान्तो यस्य समुद्रसंनिहितदेशस्य नित्यं जलसंबन्धेन नष्टदावक वात् । यद्वा पूर्वनिपातानियमेन निद्रायमाणजलधरं निद्रायमाणा जलधरा यत्र । महोच्च वेन जनसञ्चाराभावात् । अथवा जलधरनिद्रावन्तं जलधराणां निद्राविशिष्टम् । एवं च मलयं प्राप्ता इति समन्वये जलधरणिद्रावम् । जलविशिष्टा या धरणिस्तां द्रावयतीत्यर्थः । जलसंबन्धाद्धरण्या द्रवीभावादिति भावः। एवं जल गहनियं जलग्रहेण दायशून्यम् । समुद्रकल्लोलेन खनिस्थरत्नादीनामाकर्षणात् । एवं जलधरनिद्राकं जलगृहनिद्राकं वा तयोनिद्रा यत्र तम् । अवष्टम्भभूतत्वात् । एवं निद्रातजल धरं निद्रातजलधरगृहं वा बहुव्रीहिः । जलधरनिर्दावं वा तृतीयातत्पुरुषः। एवं पादपगहनेषु शिशिरेण शैत्येन निद्रां कारयन्तम् । अर्थात्तत्रत्याजनान् । यद्वा शिशिरनिद्राकान्तम् । शिशिरेण निद्रया कान्तं शैत्यहेतुकनिद्राकारकत्वेन कमनीयमित्यर्थः । एवं सदा दुर्दिनेन मेघाच्छन्नतया श्यामलता यत्र तम् । आतपाभावेन जलसंबन्धेन च लतानां श्याम वमित्यर्थः । यद्वा सदा दुर्दिनश्यामलकम् । स्वार्थे कन् । सदा दुदिनेन मेघाच्छन्नत्वेन श्याममित्यर्थः । यद्वा सदा दुर्दिनेन श्यामलं कं जलं यत्र तत्तथा । यद्वा सदादुर्दिनसाम. लकम् । सदा दुर्दिन यति बहुव्रीहिणा सदा दुदिनं च तत्सामलकमामलकवृक्षसहितं चेत्यर्थः । एवं सदादुर्दिनं च तच्छयामालयं श्यामानां नारीणामालयं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org