________________
आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम्
४१ अथ वानराणामुल्बणत्वमाह
मसिणि प्रसिहरुच्छङ्गो विअगिप्रम्बवगा प्रडिङ्गडो । विञ्झेण भरिप्रकुहरो हेलावाप्रो वि वाणराण ण सहिरो ।।५।। [ मसृणितशिखरोत्सङ्गो विधुतनितम्बवनप्रकटिततुङ्गतटः । विन्ध्येन भृतकुहरो हेलापातोऽपि वानराणां न सोढः ॥] विन्ध्येन वानराणां हेलयाऽनास्थयापि पातो गमनम्, पत्लु पतनगतो' इति धात्वनुसारादुत्फालादवपतनं वा न' सोढः। तदुपदितोऽभवदित्यर्थः । तदेवाहपातः कीदृक् । मसृणितो विलुलितः शिखरकोडो यस्मातादृक् । एवम्, विधुतै रुन्मूलितैनितम्बवनैः प्रकटितस्तुङ्गस्तटो यस्मात् । तथा च वनवृक्षाणामुन्मूलनेनावरकाभावात्तटतुङ्गिमा परं प्रकटोऽभूदिति भावः । पुनः कीदृक् । भृतं पूर्णमर्थातकपिभिरेव कुहरं कंदरादिप्रदेशो येन तत्तथा। तथा च मूलमध्यशिरःप्रदेशावच्छेदेन कपिभिस्तथोपमर्दः कृतो यथा कियानप्यवकाशो न स्थित इति भावः । 'हेलावातो हेलया वातः पवनो जङ्घादिसमुत्यो न सोडः । तद्विरोध गं सर्वम्' इत्यपि कश्चित्॥५५।।
विमला-लीलापूर्वक छलाँग भरकर बानरों के कूदने को विन्ध्य पर्वत सह नहीं सका-वानरों ने उसे तहस-नहस कर दिया। उसके शिखर-प्रदेश को मसल डाला, नितम्ब (मध्यभाग) के वनों का उन्मूलन कर डाला, जिससे उसका ऊंचा तट (अनावृत हो) स्पष्ट दिखायी पड़ने लगा और कन्दरायें वानरों से भर गई ॥५५॥ अथ सह्यगमनमाह
पत्ता अ सीपराइमघाउसिलालणिसग्गराइप्रजल अम् । सझं प्रोज्झरपहसिप्रदरिमुहणिक्कन्तब उलमहरामोप्रम् ।।५६॥ [प्राप्ताश्च शीकराहतधातुशिलातलनिषण्णराजितजलदम् ।
सह्य निर्झरप्रहसितदरीमुखनिष्क्रान्तबकुलमदिरामोदम् ॥] ने सह्य गिरि प्राप्ताश्च । कीदृशम् । शीकरैराहतं यद्गैरिका दिशिलातलं तत्र निषण्णा अत एव राजिताः शोभिता रागप्राप्तत्वाज्जलदा यत्र तथाभूतम् । निजशीकरेण धातूनां पङ्कीभावात्तत्संबन्धेन मेघानां लौहित्यमिति भावः । एतावता उच्चत्वमुक्तम् । एवम्, निर्झर एव प्रहसितं यत्र तादृशी या दरी सैव मुखं तस्मानिष्क्रान्तो बकुलमेव मदिरा तदामोदो यत्र तादृशम् , तथा च कंदरारूपमुखान्निझरस्वरूपहास्योद्गमसमये बकुलपुष्परूपमदिराणामामोदो निर्याति निरन्तरमित्यर्थः । इति विकटोदरत्वमुक्तम् । अन्यस्यापि हास्यसमये मदिरामोदो निर्यातीति ध्वनिः ॥५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org