________________
रामसेतुप्रदीप - विमलासमन्वितम्
आश्वासः ]
पुनः श्राणां स्वभावमाह
न पक्खिन्ति अवसरं ओच्छुन्दन्ति जणिअं परेण पआवम् । बोलेन्ति जहा भणिअं साहुक्कारपुरनो अइन्ति समत्था ||१६|| [ न प्रतीक्ष्य (क्ष) न्तेऽवसरमाक्रामति जनितं परेण प्रतापम् । व्यतिक्रामन्ति यथाभणितं साधुकारपुरत आयान्ति समर्थाः ॥ ] समर्था अवसरं न प्रतीक्ष्य (क्ष ) न्ते । स्वसामग्रीन्यूनतया अदेशेऽप्यकालेऽपि मिलन्ति प्रहरन्ति च । दर्पोन्नतत्वादिति भावः । एवम् — परेण जनितं प्रतापमाक्रामति । स्वप्रतापोत्कर्षजननात् । एवम् - ताडयिष्यामीत्यादि यथाभणितं व्यतिक्रामन्ति निर्वाहयन्ति । तदैव ताडनादिव्यापारात् । तथा - साधुकारपुरतः प्रतिपक्ष प्रहारादिकं दृष्ट्वा साधु साध्विति कृत्वा आयान्ति । तमेव [ प्रति ] - प्रहर्तुमित्यर्थात् । एतद्वयापारोत्कर्षेण विपक्षकृतसाधुकारस्य पुरतः संमुखे आयान्ति इति वा । वयं तु — पुरतोऽग्रतः स्थान एव प्रथमं स्वेनैव कृतः साधुशब्दाभिलापो यावदायाति विपक्षबलं, तावत्स्वयमेवागच्छन्तीति शब्दापेक्षयाप्यधिकवेगवत्तया सत्त्वोत्कर्ष उक्त इति ब्रूमः ||१६||
विमला - समर्थ वीर अवसर की प्रतिक्षा नहीं करते थे । वे शत्रुजनित प्रताप को स्वजन्य प्रताप से आक्रान्त करते एवं जैसा कहते, कर्म द्वारा उसका वैसा ही निर्वाह भी करते थे । वे शत्रुकृत योग्य प्रहार पर प्रसन्न हो साधु शब्द का उच्चारण करते, किन्तु उस साधु शब्द की ध्वनि जब तक विपक्ष सेना तक पहुँचती, उससे पहिले ही वे स्वयं प्रतिघात करने के लिये शत्रु के सम्मुख पहुँच जाते थे ||१६||
Jain Education International
[ ५५६
अथ द्वादशभिः कुलकेन शूराणां युद्धमाह --
इअ ताण तं विश्रम्भइ सुरङ्गणासुर अलम्भसं के अहरम् । भग्गजमलो अवन्थं महेन्दभवणुज्जु आइ अवहं जुज्झम् ||२०|| [ इति तेषां ('तयोर्वा) तद्विजृम्भते सुराङ्गनासुरतलम्भसंकेतगृहम् । भग्नयमलोकपथं महेन्द्रभवनऋजु कायितपथं
युद्धम् ॥ ]
इति वक्ष्यमाणप्रकारेण तेषां वानराणां राक्षसानां च तयोः कपिराक्षस सैन्ययोर्वा तद्युद्धं विजृम्भते वर्धते । कीदृक् । सुराङ्गनासुरतस्य प्राप्तौ संकेतगृहम् । भटानामिति शेषः । अत्रैव ताभिस्तेषां वरणात्तदुत्पत्तेरिति भावः । इति शौर्येण मरणमुक्तम् । अत एव महेन्द्रभवनस्य कृते ऋजुकायितः संमुखीकृतः पन्था येन । सर्वेऽपि वृत्वा ताभिस्तत्रैव नीयन्ते इति भावः । अत एव भग्नोऽहतीकृतो यमलोकस्य पन्था येन । कातराणामसत्त्वादित्याशयः ॥२०॥
१. पाठसंभावना पक्षान्तरे ।
For Private & Personal Use Only
www.jainelibrary.org