________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[५२३
अथामुष्य तन्द्रीभङ्गमाह
तो महमअमुच्चन्तामसिणोहीरन्तलोहिअच्छिणिहाअम् । घणुसद्दामरिसह णिद्दासेसं वसाणणस्स विअलिअम् ॥४३॥ [ ततो मधुमदमुच्यमानामसृणापह्रियमाणलोहिताक्षिनिघातम् ।
धनुःशब्दामर्षहतं निद्राशेषं दशाननस्य विगलितम् ॥] ततो घृणितानन्तरं दशाननस्य निद्राशेषमालस्यरूपं विगलितमपगतम् । किंभूतम् । मधुमदेन मुच्यमानः अत एव आ ईषन्मसृणमपह्रियमाणो मन्दं मन्दमुन्मी-- ल्यमानो लोहिताक्षिसमूहो यत्र । दशमुखत्वान्मुद्रणादिव्यापारेण मधुमदश्चक्षुषि तिष्ठतीति भावः । 'ही अन्त'-इति पाठे--अवहीमानमपचीयमानं लौहित्यं यत्र तथाभूताक्षिवृन्दमित्यर्थः । 'मुच्चन्तम्' इति पाठे--निद्राशेषस्यैव विशेषणम् । मधुमदस्यापि तदानीमपगमादित्यर्थः । पुनः किंभूतम् । मदग्रेऽप्येवं प्रौढ़िरिति रामधनुःशब्दामर्षेण हतं खण्डितम् । वीररसोत्पत्तेरिति भाव: ।।४३।।।
विमला-राम के धनुष का शब्द सुनने से रावण को जो अमर्ष हुआ उससे रही-सही निद्रा ( आलस्य ) भी दूर हो गयी। उसकी लाल-लाल आँखें अब कुछ-कुछ खुल गयीं और उनमें मधुमद नहीं रह गया ॥४३॥ अथामुष्याङ्गभङ्गिमाह-- तुङ्गमणितोरणाइ व एक्कक्कमलङ्घिअङ्गुलिकरालाई । उद्ध भुअजुअलाई मुअइ वलेऊण णिअअसअणुच्छङ्ग ॥४४।। [ तुङ्गमणितोरणानीव एकैकक्रमलवितागुलिकरालानि ।
ऊध्वं भुजयुगलानि मुञ्चति वलयित्वा निजकशयनोत्सङ्गे ॥]
रावणो भुजयुगलानि ऊर्ध्वं वलयित्वा उत्थाप्य तिर्यग् नीत्वा वलित्वा स्वयमेक पार्वायितो भूत्वा निजकमात्मीयं न तु सीतागतमनस्कत्वादरुचिविषयमन्दोदरीप्रभृतीनामपि यच्छयनं तदुत्सङ्गे मुञ्चति क्षिपति । विशतिभुजत्वाद्वयोर्द्वयोर्वामदक्षिणभुजयोरङ्गभङ्गावेकीकरणाद्युगलानीति बहुत्वोपन्यासः । किंभूतानि । एकैकक्रमेण लङ्घिताः परस्परसंधिभिनिर्गत्य परस्परमतिक्रम्य संबद्धा या अंगुलयः । करयोरित्यर्थात् ! ताभिः करालानि दन्तुराणि, अत एव तुङ्गानि यानि मणिवि. शिष्टानि तोरणानि पुरद्वाराणि तानीव तत्सदृशानि । भुजयोरिपार्श्ववर्तिस्तम्भाभ्यामगुलीनामुपरिस्थकङ्गुराभिस्तुल्यत्वादित्याशयः । अङ्गदादिसत्वान्मणिशब्दोपादानम् ।।४४॥
विमला-( अंगड़ाई लेते समय ) रावण ने अपने भुजयुगलों को ऊपर उठाया। उनकी अँगुलियां एक-दूसरे की सन्धियों से निकलकर एक-दूसरे से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org