________________
आश्वास: ]
रामसेतुप्रदीप - विमलासमन्वितम्
अथ कमल प्रकाशमाह
अरुणपडिबोहिआए अग्भूत्थन्तीम आश्रअं व दिणश्ररम् । साहेन्ति विहडिआइ दिमिअं कमलाई णिश्रसलच्छीअ पनम् ॥ १८ ॥ [ अरुणप्रतिबोधिताया अभ्युत्तिष्ठन्त्यागतमिव दिनकरम् ।
Jain Education International
[ ५११
शासति विघटितानि नियोजितं कमलानि दिवसलक्ष्म्याः पदम् ॥ ] विघटितानि विकसितानि कमलानि आगतं दिनकरमध्युत्तिष्ठन्त्येव तदभ्युत्थानमाचरन्त्येव दिवसलक्ष्म्या नियोजितमर्पितं पदं चरणं शासति कथयन्ति । दिनकरप्रत्युद्भजने दिन श्रियात्र चरणं निहितमिति कमलदल विघटनेन ज्ञायत इति भावः । किंभूतायाः । अरुणेन प्रतिबोधिताया जागरिताया निशि तत्र सुप्ताया इत्यर्थात् । अरुणोदयमुपक्रम्य प्रथमं कमलवन एव तदुद्भवादिति तात्पर्यम् । अन्योऽपि — 'केनचिदयं मान्यो भवति, अस्योपस्थानं क्रियताम्' -- इत्यादिप्रतिबोधितस्त्वरया गच्छन् यत्र न्यस्यति तत्राभिघातादन्यथा संस्थानं भवतीति ध्वनिः । यद्वाror प्रतिबोधिताया: 'तव स्वामी दिनकर इहागतः' इति ज्ञापितायाः । इत्यादिरूपेण समासोक्त्या प्रोषितभर्तृ कावृत्तान्त एव सूचितः || १८ ||
विमला - अरुण के द्वारा ( स्वामी सूर्य के आगमन का समाचार ) जान कर, सूर्य का स्वागत करने के लिये अभ्युत्थान करती हुई दिनश्री ने कमल पर अपना चरण रख दिया - यह कमलदलों के प्रस्फुटित होने से विदित हुआ || १८ || कम्बूनां व्यवस्थामाह एकेक्कमवोच्छिणं
पोसवोसत्यविहडिगं उअहिजले ।
जण व चन्दपडिमं अल्लिनइ विहाअकामरं सङ्ख उलम् । १el [ एकैक क्रमव्यवच्छिन्नं प्रदोषविश्वस्तविघटितमुदधिजले ।
जननीमिव चन्द्रप्रतिमामालीयते विभातकातरं शङ्खकुलम् ।। ] प्रदोषे विश्वस्तमभयं यथा स्यात्तथा विघटितं सदेकैकक्रमेण व्यवच्छिन्नं विश्लिष्टं शङ्खकुलं प्रभाते कातरं विश्लेषेण दुःखितं सज्जननीं मातरमालीयते एकस्या एवै - कदा शतावधिशङ्खा उत्पद्यन्ते । तथा च - ते सहैव संचरन्तः सायं विश्लिष्टाः प्रातः पुनर्जननीमनुसंधाय तत्समीपे वर्तुलीभवन्तीत्यर्थः । किंभूतामिव । उदधिजले चन्द्रप्रतिमामिव स्थितामित्यर्थः । प्रातश्चन्द्रस्य प्रतिबिम्बस्य तत्र स्फुटत्वादिति भावः । श्वैत्येन साम्यम् । यद्वा - -जननीमिव चन्द्रप्रतिमामालीयते इत्युत्प्रेक्षा । -जननीभ्रमाच्चन्द्रप्रतिबिम्बमाश्लिष्य वर्तलीभवन्तीत्यर्थः । यद्वा -- यथा जननीभ्रम आलीयते तथा तद्भ्रमाच्चन्द्रप्रतिबिम्बमपीति सहोपमा ॥ १६ ॥
विमला -- शङ्खकुल सायंकाल निर्भय एक-एक करके वियुक्त हो गया था । प्रातः ( रात के वियोग से ) दुःखित वह उदधिजल में चन्द्र बिम्ब को जननी समझ कर उसके समीप एकत्र हो गया ॥ १६ ॥
For Private & Personal Use Only
www.jainelibrary.org