________________
४६८] सेतुबन्धम्
[एकादश [ तदवलम्बस्व धैर्य नश्यतु संप्रत्यमङ्गलं यावदिदम् ।
ज्ञातपरमार्थलघुकावधीरितनिष्फला निवर्ततां माया ।।] तत्पूर्वोक्तहेतोधैर्यमलम्बस्व । यावदिति परिच्छेदे । इदममङ्गलं रोदनादिरूपं संप्रति नश्यतु । इयं च शिरोघटनरूपा माया निवर्तताम् । कीदृशी। ज्ञातपरमार्था सती लघुका तुच्छा कपटस्य विशेषादर्शनमात्रावधिकत्वात् । अतोऽवधीरितानादृता सती निष्फला भ्रमाजनिका । तथा च कपटत्वेन निर्णीयावहेलया निष्फलयेति भावः ॥१३॥
विमला-अतः आप धैर्य धारण करें, यह ( रोदनरूप ) अमङ्गल समाप्त हो और ( राक्षसों की) यह माया निवृत्त हो । इसकी वास्तविकता मालूम हो गयी, अतएव यह तुच्छ, अनादृत एवं निष्फल है ।। १३१ ।।
अथ शिरोलीकत्वनिगमनेन त्रिजटाया वचनमुपसंहरन्नाहहोत्तं जइ रामसिरं एप्रावत्थं पि तो समुससमाणम् । अम मिव णाअरसं आसाएउण तुह क्करप्फरिससुहम् ॥१३२।। [ भवद्यदि रामशिर एतावदवस्थमपि ततः समुच्छ्वसत् ।
अमृतमिव ज्ञातरसमासाद्य तव करस्पर्शसुखम् ।।] एतद्यदि रामशिरो भवदभविष्यत्तदा एतावदवस्थं छिन्नमपि ज्ञातरसं तव करस्पर्शसुखममृतमिवासाद्यास्वाद्य वा समुच्छ वसत्समुदश्वसिष्यदजीविष्यदित्यर्थः । सृतमप्यमतेन जीवतीति रामशिरः सर्वथा नैतदिति भावः । लुङर्थे शतृप्रत्ययः ।।१३२॥
विमला-यदि यह राम का सिर होता हो इस अवस्था में भी अमृतोपम आप के करस्पर्श, निसका रस यह जान चुका है--का सुख पाकर उससे अवश्य ही जी उठता ।। १३२॥ अथ नूनमनिष्टाशङ्कीनि बन्धुजनहृदयानीति पुनरपि सीताया रोदनमाह
इन रामपेम्मकित्तगदूसहवउजाहिघाअदूमिमहि । संभरिअ मुक्ककण्ठमण्णम मरणणिच्चमा वि पहण्णा ।।१३३॥ [इति रामप्रेमकीर्तनदुःसहवज्राभिघातदुःखितहृदया। __ संस्मृत्य मुक्तकण्ठमन्यमयं मरणनिश्चयापि प्ररुदिता ।।]
इत्यनेन प्रकारेण त्रिजटाकृतं यद्रामप्रेमकीर्तनं तदेव दुःखहेतुत्वाद्दुःसहो यो वज्राभिघातस्तेन दुःखितहृदया सती सीता संस्मृत्य । पूर्वप्रेमव्यवहारमित्यर्थात् । मुक्तकण्ठमुच्चर्यथा स्यादेवं मरणे कृतनिश्चयाप्यन्यमयं पूर्वरोदनापेक्षयापि शृङ्गारा. त्मकत्वेन विलक्षणं यथा भवत्येवं प्ररुदिता । यथामृतस्यानुबन्धस्मरणं तथा तथा रोदनाधिक्यं भवतीति भावः ।।१३३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org