________________
३४ ]
सेतुबन्धम्
. [प्रथम
अथ सीतापहारमूलकत्वेनाधिकबलमपि शृङ्गारमुपमृद्योत्पद्यमानं रामकोपमाह-- बाहमइल पि तो से वहमुहचिन्ताविप्रम्भमाणामरिसम् । जासं दुक्खालोरं जरढ़ाअन्तरविमण्डलं विअ वमणम् ।।४३।। [बाष्पमलिनमपि ततोऽस्य दशमुखचिन्ताविजृम्भमाणामर्षम् । जातं दुःखालोकं जरठायमानरविमण्डलमिव वदनम् ॥]
ततो मणिमर्षणानन्तरमस्य रामस्य बाष्पेण मलिनमपि वदनं दुःखालोकं दुःखेन दर्शनीयं जातम् । तत्र हेतुमाह-कीदृक् । दशमुखविषयिणी या वधादिचिन्ता तया विजृम्भमाणोऽमर्षो यत्र तत् । यथा यथा चिन्तोदयस्तथा तथामर्षोदय इति भावः । तदभिव्यक्तिस्तु ताम्रत्वादिना। अत एव मलिनस्यापि दुःखालोकत्वम् । तथा च ताम्रत्वादिना मालिन्यमपहस्तितमेवेति भावः । अत एव जरठायमानं प्रौढं मध्याह्नकालीनं रविमण्डलमिवेत्युपमा तदपि दुनिरीक्षमेवेति भावः ।।४३॥
विमला-तदनन्तर दशमुखविषयक वधादि चिन्ता के साथ-साथ ईर्ष्याजन्य क्रोध के उदय से श्रीराम का अश्रुमलिन मुख भी मध्याह्नकालीन प्रौढ़ रविमण्डल के समान दुनिरीक्ष्य हो उठा ॥४३॥ अथ रामस्य धनुर्दर्शनमाह
तो से चिरमज्झत्थे कुविअकमन्तभुममालआपडिहए। विट्ठी विद्वत्थामे कज्जपुरव्व णिनए धणुम्मि पिसण्णा ॥४४॥ [ततोऽस्य चिरमध्यस्थे कुपितकृतान्तभ्र लताप्रतिरूपे । दृष्टिदृष्टस्थाम्नि कार्यधुरेव निजके धनुषि निषण्णा ॥]
ततः क्रोधानन्तरमस्य दृष्टिनिजे स्वायत्ते धनुषि निषण्णा। कीदृशे । वालिवधे दृष्टं स्थाम बलं दाढयं यस्य तस्मिन् । एवम्, चिरं व्याप्य मध्यस्थे उदासीने । कार्यानुद्युक्त इति यावत् । तथा च बहुदिनमारभ्य लब्धविश्राममसि वाली च त्वयैव हतस्तत्तदभिभूतो रावणस्ते कियानितीह निजस्य भवत एव प्रत्याशा ममेति रामेण धनुर्दष्टमिति भावः । तथा च तदुक्तकार्यधुरेव दृष्टि पिता किं तु रावणवधरूपस्य प्रकृतकार्यस्य भार एवार्पित इत्युत्प्रेक्षा। भारसमर्पणे हेतुमाह-कुपितस्य यमस्य धूलतायाः प्रतिरूपे। प्रतिबिम्बस्य प्रकृतिसमानशीलत्वात् । यथा कुपितयमभ्रूविषयो न जीवति तथैव धनुर्विषयोऽपीति भावः। प्रतिरूपे सदृश इति वा। 'णिहुअकअन्त' इति पाठे निभृता निर्व्यापारेत्यर्थः। धनुरपि तदानीं निर्व्यापारमेवेति तात्पर्यम् ॥४४॥
विमला-तदनन्तर इन (राम) ने (वालिवध के समय) आजमायी गई दृढ़ता वाले, बहुत दिनों से कार्य में नियुक्त न किये गये (अतएव शत्रुहनन के लिए अत्यन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org