________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[३३
भय मणिशोचनमाहसोनइ प्रणं रहुवई विरलगलिगलिप्रकिरणधारावरम् । वप्रणे विमलुज्जो बररोत्तूण सलिललि व णिमेन्तो।।४।। [शोचति चैनं रघुपतिविरलागुलिगलितकिरणधाराप्रकरम् । वदने विमलोद्योतं दररुदित्वा सलिलाञ्जलिमिव नियोजयन् ॥]
सीतामपहाय कुत्रागतः कीदृग्वा वृत्तोऽसीत्यादिक्रमेण रघुपतिरेनं मणि शोचति च । कीदृशम् । विरलागुलिभ्यो गलितकिरणधारासमूहम् । विरहदौर्बल्यहेतुकाङ्गुलिसंधिभ्यो धाराकारकिरणनिर्गमादिति भावः । 'महापुरुषलक्षणमङ्गुलिसंधिः' इत्यपि कधिचत् । किं कुर्वन् । दरेत्यव्ययम् । ईषद्रुदित्वा विमलमुद्योतं मणितेजः प्रक्षालनसलिलाञ्जलिमिव वदने निवेशयन् । अन्योऽपि रुदित्वा मुखं प्रक्षालयति । 'बहुव्रीहिणा विमलोद्योतं मणिमेव मुखे नियोजयन् प्रियं वस्तु मुखादावण्यंते' इत्यपि कश्चित् । तथा च रामस्य वार्ताज्ञानानन्तरमध्यवसायेन रोदनशेषो वृत्त इति मुखक्षालन मिति भावः ॥४१॥
विमला-श्रीराम ने किञ्चित् रोकर, विरल अङ्गुलियों के बीच से धाराकार निकलती किरणों वाली एवं विमल तेज वाली उस मणि को मुख पर (प्रक्षालनार्थ) सलिलाञ्जलि-सी निविष्ट करते हुए उसके प्रति शोक व्यक्त किया ॥४१॥ अथ रामावस्थामाह
तं वइमाहिण्णाणं जम्मि वि अङ्गम्मि राहवेण ण णिमि प्रम् । सीआपरिमट्ठण व वढ़ो तेण वि गिरन्तरं रोमञ्चो॥४२॥ [तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न नियोजितम् । सीतापरिमृष्टेनेव व्यूढ़स्तेनापि निरन्तरं रोमाञ्चः ॥] अभिज्ञानं संदेशो मणिरूपः । दयितं प्रीतिपात्रम् । दयिताया इति वा । तद्राघवेण यस्मिन्नप्यङ्गन न निवेशितं तेनाप्यनेन सीतया परि सर्वतोभावेन मृष्टेनेव न तु स्पृष्टमात्रेण ) निरन्तरं रोमाञ्चो व्यूढः। तथा च यथा सीतापरिमृष्टेनाङ्गेन रोमाञ्चो ध्रियते तथा मणिस्पृष्टेनाप्यनेन विशेषतः ऊढः । सीतासंबन्धिमणिसंवन्धादिति भावः । तथा च नित्यसंनिहितसीतास्पर्शापेक्षया विरहकालीनसीतापर-म्परासंबन्धोऽप्यधिक इति तात्पर्यम् ।।४२॥
विमला-प्रिया सीता की निशानी उस मणि को श्रीराम ने अपने जिस मङ्ग पर नहीं भी निविष्ट किया वह भी मानों साक्षात् सीता से ही आलिङ्गित हो सतत रोमाञ्च से भर गया ॥४२॥
३ से० ब०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org