SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ रामसेतुप्रदीप - विमलासमन्वितम् [ निर्वर्ण्य चैतत्ततोऽभिमुखस्थिताव सीदन्निः संज्ञः । काङ्क्षन्त्या अपि न प्राप्तो वचनं मरणं चास्या कथमप्यात्मा || ] च पुनः अस्या आत्मा वचनं मरणं च न प्राप्तः, रामजीवनायत्तजीवनत्वान्मरणाभाव:, तत एव संप्रति जीवाम्येवेत्यप्रतिभया वचनाभाव इति भावः । किंभूतायाः । एतद्रामशिरो निर्वर्ण्य निरीक्ष्य काङ्क्षन्त्याः, तदुभयमर्थादिच्छन्त्याः । आत्मा कीदृक् । रामशिरोभिमुखस्थितः सन्नवसीदन्निः सहो भवन्, अथ च निःसंज्ञः । यद्वा ततोऽभिमुख स्थितत्वेनावसीदन्नत एव निषण्णस्तत्रैव स्थितः समीपगमनसामर्थ्याभावादिति भावः ॥ ६७ ॥ आश्वासः ] विमला - राम के सिर को भली-भांति देखकर उसकी ओर मुख कर निश्चेष्ट एवं संज्ञाशून्य सीता जी बहुत चाहने पर भी न मर सकीं और न ही कुछ बोल सकीं ॥६७॥ पुनरप्यवेगात्पतितेत्याह [ ४६६ वरि अ पसारिअङ्गी रमभरिउप्पहपइण्णवेणीबन्धा । पडिया उरसंवाणिअमही अलचक्कलि अत्थणी जणप्रसुता ॥ ६८ ॥ [ अनन्तरं च प्रसारिताङ्गी रजोभृतोत्पथ प्रकीर्णवेणीबन्धा । पतितोरः संदानित महीतलचक्रीकृतस्तनी जनकसुता ॥ ] निर्वचनानन्तरं च जनकसुता पतिता भूमौ' इत्यर्थात् । भूमावपि निपत्यात्मानं व्यापादयामीत्याशयात् । किंभूता । प्रसारितमङ्गं यया तादृशी । क्वचिदप्यङ्गे मृत्युहेतुरभिघातो जायतामितीच्छ्येति भावः । एवं रजोभृतो धूलिपूर्ण उत्पथ प्रकीर्णः पृष्ठमपहास्य यत्र कुत्रचिद्विपर्यस्तो वेणीबन्धो यस्याः । एवम् उरः संदानितेनाधोमुखपतनादुरसावष्टब्धेन महीतलेन चक्रितो यन्त्रणावशाच्चक्रवन्मण्डलाकृतीकृतौ स्तनो यस्याः सा । एतेन स्तनयोरुन्नतकठिनत्वमुक्तम् ॥ ६८ ॥ विमला - तदनन्तर ( आत्मघात के उद्देश्य से ) सीता जी अपने अङ्गों को प्रसारित कर छाती के बल पृथ्वी पर गिर पड़ीं, जिससे उनकी वेणी पीठ पर से हट कर इधर-उधर बिखर कर धूलिधूसर हो गयी एवम् भूतल पर छाती सट जाने से उनके स्तन पृथिवी से दब कर मण्डलाकार हो गये || ६८ || स्तनजवनोन्नतिमाह सव्वङ्गणिमण्णा वि णोसेसक्खविअवलिविभङ्गणिराओ । तीए मज्झपएतो थणजहणकरालिओ ण पावइ वसुहम् ॥६६॥ [ सर्वाङ्गनिषण्णाया अपि निःशेषक्षपितवलीविभङ्गनिरायतः । तस्या मध्यप्रदेश: स्तनजघनकरालितो न प्राप्नोति वसुधाम् ॥ ] भूमावधोमुखीभूय सर्वाङ्गेण निषण्णाया अपि तस्या मध्यप्रदेश उदरं स्तनजघ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy