SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ रामसेतुप्रदीप - विमलासमन्वितम् [ ४४५ सीतागतचित्तत्वादन्यहृदयो दशवदनः प्रियाणां समस्तं संपूर्ण निर्वेल्लितं प्रस्फुरितमधरोष्ठं यत्र तादृशं प्रलोकितं दर्शनमभिनन्दति श्लाघते । कामविलास - प्रसूतत्वभ्रमादिति भावः । किंभूतम् । उद्गतेन मत्सरेण प्रसारितः समुत्थापितः, अथ च – अन्यचित्तत्वाद्रावणेन विलासबुद्ध्याधितोचितः सत्कृतो हुंकारो यत्र तम् । अयमर्थः--अनभिप्रेतकर्तारमोष्ठावी षत्पुरः प्रेर्य सभ्रभङ्गि सहुंकारमालोक्योपहसन्ति लोका इति प्रियाभिरपि सीतायामस्यासक्तिमसहमानाभिस्तथा कृतमुपहासत्वेन न जानाति, प्रत्युत कामविलास प्रसूतत्व भ्रमाद्वहु मन्यते इति शून्यहृदयत्वाच्चि - तासङ्ग एवोक्तः ॥ १६॥ विमला - सीता के प्रति रावण की आसक्ति को न सह पाने के कारण उसकी प्रियायें रावण की ओर हुङ्कारपूर्वक देखतीं किन्तु वह सीतागतचित्त होने के कारण उनके इस आचरण का, कामविलासजन्य समझ कर आदर ही करता था ।। १६॥ भाश्वासः ] अथ संकल्पमाह दुच्चिन्ति आवसेसं पिआहि उन्मच्छसंभमक आलोधम् । हसइ खणं अध्पाणं प्रणहिअअविसज्जिआसणणिअत्तन्नम् ॥२०॥ [ दुश्चिन्तितापदेशं प्रियाभिरुन्मत्सरसंभ्रमकृतालोकम् । हसति क्षणमात्मानमन्य हृदय विसृष्टासननिवर्तमानम् ॥ ] स क्षणमात्मानं हसति । कथंभूतम् । अन्यहृदयेन सीतारूपान्यगतचित्तत्वेन विसृष्टं संकल्पोपस्थितसीताभ्युत्थानाय त्यक्तं यदासनं तस्मान्निवर्तमानं बहिर्भू भूमावेवोपविशन्तम् । 'निसम्मन्तम्' इति पाठे - विवेके सति पुनर्निषीदन्तम् । एवम् — प्रियाणां तथाबुद्धयजन कत्वादुश्चिन्तितोऽपदेशो विवेकोत्तरं किंचिन्मिथ्यादूषणमुद्भाव्य नैतदासनं मह्यं रोचत इत्यादिर्व्याजो येन तम् । अत एव प्रियाभिरुन्मत्सरेणोद्गतेर्थ्येण संभ्रमेणोद्वेगेन कृत आलोको दर्शनं यस्य । तथा च--स्वस्य वृथासनत्यागेन प्रियाणामीयदृष्ट्या चैवंविधोऽहमसमीक्ष्यकारीत्यात्मानं निन्दतीत्यर्थः । यद्वा—कीटसत्त्वभ्रमादेतदासनं वृथैवोज्झितवानस्मीत्यहो मम मौग्ध्यमिति लब्धविवेकस्तासां प्रतारणाय स्वयमेव स्वमात्मानमुपहसतीत्यर्थः । अत एव दुश्रिन्तित एवंरूपो व्याजो येन तासां तथाप्रतीत्यजननात् । 'दुच्चिन्ति ओवएसम्' इति पाठे—रम्भानलकूबरयोः शापतः स्वनाशहेतुत्वेन दुश्चिन्तितो बलादेव सीतामान - यामीत्येवंरूप उपदेशः सीताप्राप्त्युपायो येनेत्यर्थः ||२०|| विमला - रावण का मन सीता में इतना रमा रहता था कि उसे सीता के आ जाने का भ्रम हो जाता और उसका स्वागत करने के लिये स्वयम् आसन छोड़ कर उठ पड़ता । अतएव जब उसकी प्रियायें उद्गत ईर्ष्या और उद्वेग से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy