________________
एकादश आश्वासः
अथ जानकीदर्शनोद्दीपितमदनस्य रावणस्य विरहावस्थामाह - इअ पडिसारिचन्दे दूरुक्खण्डिअणिसापअत्तविरामे । चित्तविश्रका मिणिश्रणे जामच्छेअविसमं गम्मि पनोसे ।। १ दोहं रक्खसवइणा चिन्तारेअविअधीरदाविश्अहिअअम् ।
दसहि वि मुहेहि समअं आलोइ सुण्णदसदिसं णोससिश्रम् ॥ २ ॥ ( जुग्गअम् )
[ इति प्रतिसारितचन्द्रे दूरोत्खण्डितनिशा प्रवृत्तविरामे । चेतितकामिनीजने यामच्छेदविषमं गते प्रदोषे ॥ दीर्घ राक्षसपतिना चिन्तारेचितधैर्य दर्शितहृदयम् । दशभिरपि मुखैः समकमालोकितशून्यदशदिग्निः श्वसितम् ॥ ] ( युग्मकम् )
इत्यनेन दूतप्रेषणप्रसाधनसंभोगादिना प्रकारेण प्रदोषे गते सतीत्यग्रिमस्कन्धकेन समन्वयः । कीदृशे प्रदोषे । प्रतिसारितो दूरं प्रापितश्चन्द्रो येन । तत्र । यामिनीशषत्वात् । एवं दूरमुत्खण्डितानीकृता या निशा तया प्रवृत्तः प्रदत्तो वा विरामोऽवसानं संभोगव्यतिरेको वा यत्र । एवं चेतितः प्राप्तचैतन्यः कामिनीजनो यत्र पूर्ण कामतया मदापगमात् । यामस्य च्छेदेनापगमेन विषमं यथा स्यादिति क्रियाविशेषणम् । यामच्छेदेन निशाहासात्संभोग (?) साम्राज्याभावेनोद्वेजकत्वादिति भावः । राक्षसपतिना दशभिरपि मुखैः सममेकदैव दीर्घं यथा स्यात्तथा निःश्वसितम् । सीतालाभोपायाभावादिति भावः । 'रामः संनिहितः, सीता न संमुखी वृत्ता' इत्यादिचिन्तया रेचितं शून्यीकृतं यद्धेयं तेन दर्शितं व्यक्तीकृतं हृदयमान्तरं यत्र तद्यथा स्यात् । अवलम्बितमपि धैर्यं तुच्छतया गोपनं न जनयतीत्यर्थः । एवं दशभिरपि मुखैरित्यर्थात् । आलोकिताः शून्या दश दिशो यत्र तद्यथा स्यात् । सीतां विना सर्वमेव शून्यं भासत इत्यर्थः । यद्वा सीतागतमनस्कतया शून्यं यदालोकितं तद्विषयीकृतदशदिगित्युभयमपि क्रियाविशेषणम् । 'ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत्' इति चिन्तारूपावस्थोक्ता ॥२॥
विमला - इस प्रकार धीरे-धीरे चन्द्रमा दूर ( अस्ताचल ) को चला गया, निशा के उत्खण्ड़ित होने से, ( नवदम्पतियों ने सुरत-क्रीडा से ) विराम लिया, कामिनियों में ( मद दूर हो जाने से ) चेतनता आ गयी, रात बीत गयी, जिसका बीतना ( नवदम्पतियों को ) उद्वेगकारक ही रहा । उस समय रावण का धैर्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org