________________
सेतुबन्धम्
[ एकादश
चिन्ता से विनष्ट हो गया, जिससे उसके हृदय की मनोभाव-गोपनशक्ति का पता चल गया और ( सीता को अनुकूल न कर सकने से) दसो मुखों से दीर्घ निःश्वास छोड़ता हुआ दसो दिशाओं में उसने दृष्टि डाली, किन्तु ( सीता के विना ) उसे चारों ओर सूना ही दिखायी पड़ा ॥१-२॥ रावणस्योन्मादावस्थामाहचिन्तेइ ससइ जूरइ वाहुं परिपुसइ धुणइ मुहसंघाअम् । हसइ परिओससुण्णं सीआणिप्पसरवम्महो वहवअणो ॥३॥ [चिन्तयति श्वसिति खिद्यते बाहुपरिप्रोञ्छति धुनोति मुखसंघातम् ।
हसति परितोषशून्यं सीतानिष्प्रसरमन्मथो दशवदनः ॥] सीतायां निष्प्रसरो निरुद्धवृत्तिर्मन्मथो यस्य । सीताया वैमुख्यात् । तादृशो दशवदनश्चिन्तयति सीतालाभोपायमर्थात् । तं चालभमानः श्वसिति रम्भाशापस्मृत्या बलात्कारोऽपि न संपद्यत इति मनःखेदात् । एवं रामावष्टम्भात्सीता मामपि रावणं न गणयतीति खिद्यते । अत एव बाहं परिप्रोञ्छति परिमाष्टि । राम चेदेभिर्हनिष्यामि तदा सीता मामासादयिष्यामिति भावः । यद्येभिः कैलासमिव सर्वपर्वतानालोड्य नष्टानकरिष्यम्, तदा सेतुरेव न स्यादिति वा । एवं मुखसंघातं धुनोति । यद्येतानि मुखानि प्रीतं पिनाकिनं मनुष्यादप्यवध्यत्वमयाचिष्यन्त तदा रामावध्योऽहमभविष्य मिति राम एव मया हते सीता सुलभा भवेदित्यसंतोषादिति भावः । तथा परितोषशून्यं हसति धिक् त्रिदशान्, अमी यत्स्व. यमसमर्था मनुष्यद्वारा मामभिभवितुमिच्छन्तीति हेलावशादिति भावः । यद्वा दूरस्थितेऽपि रामे या न वशीकृता सा कथ मिदानीं सविधस्थिते वशमेप्यतीति नैराश्याच्छ्वसिति । अत एव सीताहरणप्रयासो मम निष्फलो भविष्णरिति खिद्यते । अथ धन्योऽयं बाहुः, येनाहरणसमये सीतां वक्षःस्थलमारोप्य किंचिदपि जन्मसाफल्यमजितमिति सत्कुर्वन्बाहुं परिप्रोञ्छति परामृशतीत्यर्थः। अत एवालब्धसीतामुखचुम्बनत्वादवज्ञाविषयत्वेन सुखसंघातं धुनोति । तथा जटाचीरपरिग्रहेऽपि रामे दृढानुरागेयमुत्तमनायकं मामवजानातीत्यहो सीताया मौग्ध्यमिति परितोषशून्यं हसति । 'जूरइ' इत्यत्र 'कुप्पई' इति पाठे रामे दत्तभरेयमिति अध्य. तीत्यर्थः। तत्र बाहुं परिप्रोञ्छति रामाद्यभिभावकत्वेन बाहोरेव सहायत्वात् ।' अत एव मुखसंघातं धुनोति । एकमुखोऽपि मादक् पराभवितुमयोग्यः, किं पुनर्दशमुख इति भावः । एवं परितोषशून्यं हसति अहो रामस्य मौग्ध्यं यत्कपिभिर्मत्पराभवमिच्छतीति भावः । शिरःकम्पहासौ क्रोधानुभावौ । क्रियादीपकम् । 'उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि । तथां-'अस्थानहासरुदितगीतप्रलपनादिकृत् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org