________________
४२२ ]
सेतुबन्धम्
[ दशम
त्पित्सया उद्वेगेनोन्मीलन्ती बहिर्भवन्ती तारका यस्य तत् । तथा च प्रथमं कामवशात्सुखभावनया किंचिदन्तहितापि तारका पुनरुद्वेगवशात्सुखविच्छेदादुन्मीलिताभूत् । अत एव भयं ज्ञापयतीति भावः ।।६१॥
विमला-उनके नेत्र जो ( पहिले ) सुरतसुख से किंचित् मुदे हुये थे, अतएव (तारकारूप ) भ्रमर से स्वल्प आक्रान्त मालतीमुकुल के समान हो रहे थे, अब समरजन्य उद्वेग से उन्मीलित तारका ( कनीनिका ) द्वारा समरजन्य त्रास को सूचित कर रहे थे ॥६१।। अथासां त्रासोपमर्दकस्य शृङ्गारस्योत्कर्षमाह
अह ससिजणिग्रामोए मअपरिवढिअपिआहिसारणसोक्खे। मअणुम्मलिअमाणे राअपराहोणर इसुहम्मि परोसे ॥६२।। बलइ' अमिअकुविओ अवसाइअहरिसिओ प्रईइ सरीरम् । ससइ अचुम्बिअसुहिनो मनपाअडिअहिअ प्रो विवसिणिसत्थो॥६३॥
(जुग्गअम् ) [ अथ शशिजनितामोदे मदपरिवर्धितप्रियाभिसारणसौख्ये । मदनोन्मूलितमाने रागपराधीनरतिसुखे प्रदोषे॥ वलति अदूनकुपितोऽप्रसादितहर्षितोऽत्येति शरीरम् । श्वसिति अचुम्बितसुखितो मदप्रकटितहृदयो विलासिनीसार्थः॥]
(युग्मकम् ) अथ रतिभयविरुद्धभावोत्पत्त्यनन्तरं प्रदोषे सतीति संदंशकेनोत्तरस्कन्धके क्रिया कर्तृ समन्वयः कर्तव्यः । कीदृशे । शशिना जनितः प्रहर्षो यत्र । एवं मदेन परिवधितानि प्रियाभिसारणरूपसौख्यानि यत्र । यद्वा मदेन कामोत्कर्षेण परिव. धितं प्रियाभिसारणेन प्रियस्यानयनेन सौख्यं यत्र । 'मदाज्ञया सकामः प्रिया स्वयमेवाभिसरति' इति नायिकायाः, 'मदुत्कण्ठासमकाल मेवाहमनयाहूतः' इति नाय. कस्य चेति भावः । यद्वा परिवधितेन मदेन नायिकाया यदभिसारणं तेन सौख्यं यत्र, द्वयोरित्यर्थात् । 'सकामोऽयमभिसारयति माम्' इति नायिकायाः, 'मदं कृतार्थयितुमाहूतेयमागतैव' इति नायकस्य चेति भावः । एवं मदनेनोन्मूलितो मानो यत्र । यद्वा मदनस्योन्मूलितं मानमियत्ता यत्र । एवं रागोऽनुरागस्तत्पराधीनं रतिसुखं यत्र । कदाचिदनुरागं विनापि रतिसुखमुत्पद्यत इति, तदानीं चन्द्रिकासाम्राज्येन सर्वेषां सर्वत्रानुरागपूर्वकमेव तदासीदिति भावः । यद्वा 'राजपराधीन-' इति [पाठे ] राज्ञो रावणस्य पराधीनं रतिसुखं यत्रेत्यर्थः। यदीदानीं रावणो योद्धुमा
१. अत्र 'दूमिअकुविओ' इत्यस्य व्याख्या त्रुटिता प्रतीयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org