________________
४१४ ]
सेतुबन्धम
[ दशम
शशिना वनानि प्रकटयन्ते स्फुटीक्रियन्त इव । किंभूतानि । विटपानामन्तरेण रन्ध्रेण विरलं यथा स्यात्तथा पतिताश्चन्द्रस्य करा येषु । अत एव भिन्नं खण्डितं तम एव, तमसा वा, दुर्दिनं येषु । अत एव स्तोकमल्पं सुखालोकानि । ईषत्करपातात् । आलो कस्तेजश्छटा वा। अत एव छटासंबन्धान्मुग्धं मनोरमं पल्लवं येषां तानि । यद्वा-वनानि कत"णि मुग्धपल्लवानि क्षुद्रपल्लवान्यपि कर्माणि प्रकटयन्ति प्रकाशयन्ति चन्द्रोत्कर्षादित्यर्थः। विशेषणानि वनवत्पल्लवानामपीति ध्येयम् । विट'पान्तरपतितचन्द्र करत्वात्किरणैरेव प्रगलन्ति स्रवन्तीवेति केचित् ॥४४॥
विमला-चन्द्रमा ने वनों को प्रकट कर दिया। उसकी किरणें विटपों के रन्ध्र से विरल रूप में पृथिवी पर पड़ने लगीं, तिमिररूप दुदिन का अवसान हो गया, अतएव वृक्षों का स्वल्प एवं सुखद दर्शन होने लगा तथा उनके पल्लव मनोरम हो गये ॥४४॥ कुमुदसाम्राज्यमाह
परिमलिअद्दुमकुसुमा उअत्तदिसागइन्दमअणीसन्दा । निविठ्ठपङ्कवणा प्रोवग्गन्ति कुम ओभराइ महुअरा ॥ ४५ ॥ [परिमृदितद्रुमकुसुमा उपभुक्तदिग्गजेन्द्रमदनिस्यन्दाः। निवृष्टपङ्कजवना आक्रामन्ति कुमुदोदराणि मधुकराः ।।]
परिमृदितानि द्रुमाणां कुसुमानि यः, उपभुक्ता दिग्गजेन्द्राणां स्यन्दमाना मदा यः, एवं निघुष्टमुपभुक्तं पङ्कजवनं यः, तेऽपि मधुकराः कुमुदानामुदराण्याक्रामन्ति, न तु दलानि । विलासोत्कर्षेण दलानामधोगमनात्प्रसह्योदर एव पतनादिति भावः । एतेन रात्रौ द्रुमकुसुमाद्यपेक्षया सामायिकत्वेन कुमुदमधूनामास्वादसाम्राज्यं सूचितम् ।।४।।
विमला-भ्रमर यद्यपि द्रुमकुसुमों, दिग्गजेन्द्रों के मद तथा पङ्कज वन का उपभोग कर चुके थे तथापि उन्होंने कुमुदों के उदर को आक्रान्त किया ॥४५॥ अथ चन्द्रस्योर्ध्वारोहणमाह
होइ णिराअ अलम्बोगवखपडिओ दिसागअस्स व ससिणो। कसणमणिकूट्टिम अले गेल्लन्ती सरजलं व करपब्भारो॥ ४६ ॥ [ भवति निरायतलम्बो गवाक्षपतितो दिग्गजस्येव शशिनः ।
कृष्णमणिकुट्टिमतले गृह्णन्सरोजलमिव करप्राग्भारः ॥] दिग्गजस्येव शशिनः करप्राग्भार इन्द्रनीलघटितकुट्टिमतले गवाक्षेण पतितः सन् सरोजलमिव गृहन्निरायतलम्बो भवति । गजस्य करः शुण्डा तदग्रभागः सरोजलं गृह्णन् दीर्घाकृतः संल्लम्बो भवत्येवेत्याशयः । तथा च-श्वत्येन दिग्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org