________________
भाश्वासः ]
रामसेतुप्रदीप - विमलासमन्वितम्
[ ४१३
शशिना तमोनिवहः अवशेषशून्यं यथा स्यात्तथा प्रोञ्छितो नु । करैरित्यर्थात् । यत्कर्दमादि प्रोञ्छयते तत् किंचिदपि करे लगति, तमस्तु न तथा इत्यत आह--- सममेकदैव स्थूलकरैः प्रेरितो नु । प्रेरितमपि निकटं त्यक्त्वा दूरे तिष्ठति, प्रकृतं तु न तथा, इत्यत आह - विशीर्णः खण्डखण्डीभूतः । विशीर्णमप्येकदेशे तिष्ठति, इत्यत आह——समस्त एव समन्ताद्वावस्तृतो नु । विकीर्ण इत्यर्थः । अवस्तृतमपि aण्डस्फुटितं दिशि दिशि तिष्ठत्येव इत्यत आह-पीतो नु । यद्वा – समन्तत इत्यत्रैवानेतव्यम् तेन पीतो नु समाप्तः कथाशेषं गत इत्यर्थः । पीतावशिष्टमपि चषकादौ लगति, इत्यत उक्तम् — निर्दयमिति क्रियाविशेषणम् । तेन शत्रुवतिकमपि न रक्षितमिति भावः ॥ ४२||
,
विमला - चन्द्रमा ने तिमिरसंघात को क्या एकदम पोंछ डाला अथवा स्थलकरों से दूर हटा दिया अथवा खण्ड-खण्ड कर दिया अथवा विकीर्ण कर दिया अथवा उसने निर्दयतापूर्वक पी डाला ? ॥४२॥
अथ गगनोज्ज्वलतामाह -
मंसल चिक्खिल्लणिहं हत्थग्गेज्झं व महलिअदिसानवकम् ।
खन्तूण व तमणिवहं चन्द्रज्जोएण खउरिअं व गहअलम् ॥ ४३ ॥ [ मांसलकर्दमनिर्भ हस्तग्राह्यमिव मलिनित दिक्चक्रम् । उत्खायेव तमोनिवहं चन्द्रोदयोतेन मुण्डित ( धवलित) मिव नभस्तलम् || ] चन्द्रोदयोतेन तमोनिवहमुत्खाय केशा दिव च्छित्त्वा नभस्तलं मुण्डितमिव धवतिमिवेति वा । तमोनिवहं किंभूतम् । चिक्खिल्लशब्दः कर्दमे देशी । तेन घनीभूतकर्दमनिभम् । अत एव हस्तेन ग्राह्यमिव निबिडत्वात् । एवं मलिनितं दिक्चक्रं येन तत्तथा । ' शशिना' इति पूर्वस्कन्दका दनुषञ्जनीयम् । तेन शशिना नापितेनेवेत्यर्थात् । चन्द्रोदयोतेन क्षुरादिवत्करणीभूतेन नभस्तलं मुण्डितमित्यन्वय इति वयम् ॥४३॥
विमला - ( नापितवत् चन्द्रमा ने ), चन्द्रोद्योत ( छूरा ) से, ( केशवत् ) घनीभूत पङ्कसदृश अतएव हाथ से ग्राह्य तथा दिङ्मण्डल को मलिन करने वाले तिमिरसंघात को छिन्न कर गगनतल को मुण्डित अथवा धवलित-सा कर दिया ||४३||
वनमाह
भिण्णत मदुद्दिणाई बिडवन्तर विरलपडिश्रचन्दकराई ।
थोअ सुहालोआई पअडन्ति व्व मुद्धपल्लवाई वणाई ।। ४४ ।। [ भिन्नतमोदुर्दिनानि विटपान्तरविरलपतितचन्द्रकराणि । स्तोकसुखालोकानि प्रकटयन्त इव मुग्धपल्लवानि वनानि ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org