SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [४१५ जचन्द्रयोः, श्यामत्वेन सरोजलकुट्टिमयोः, दैर्पण करपदश्लेषेण च शुण्डाकिरणयोः साम्येनोत्प्रेक्षा ॥४६।। विमला-चन्द्रमा का किरणसमूह इन्द्रनील मणि के फर्श पर झरोखों से गिरता हुआ दीर्घ हो रहा है, मानों दिग्गज की सूड का अग्रभाग सरोवर के जल को ग्रहण करने के लिये लम्बा हो रहा है ॥४६॥ अथेन्दोरूर्ध्वस्थितिमाहदोसन्ति गाउलणिहे ससिधवलमइन्दविदुए तमणिवहे। भवणच्छाहिसमूहा दोहा गोसरिअकद्दमपअच्छाआ ॥४७॥ [ दृश्यन्ते गजकुलनिभे शशिधवलमृगेन्द्रविद्रुते तमोनिवहे । भवनच्छायासमूहा दीर्घा निःसृतकर्दमपदच्छायाः ॥] भवनानां छायासमूहा दीर्घा दृश्यन्ते । चन्द्रस्य तिर्यगूर्ध्वस्थितत्वादित्याश यः । किंभूताः । श्यामत्वाद्गजकुलतुल्ये तमोनिवहे चन्द्र एव धवलो मृगेन्द्रस्तेन विद्रुते सति नि:सृतः कर्दमो यत्र तादृशं यत्पदं पदार्पणस्थानं तद्वच्छाया शोभा येषां तथाभूताः । तथा च पङ्कादुत्तीर्णस्य करिणः पदपङ्क्तिः पङ्कमयी भवतीति तथा. भूतस्य विधुसिंहभिया पलायितस्य तमोगजस्य पदपङ्क्तितुल्यत्वं गृहच्छायानामित्यर्थः । सिंहस्य स्वभावत एव धवलत्वमिति निरर्थकत्वमाशय पूर्वनिपाता नियमेन मृगेन्द्रवद्धवलशशिविद्रुते इति योजयन्ति केचित् । केचित्तु-तमोगजाविनाशक्षमत्वसूचनाय धवलो धुरंधरः इत्यर्थमाहु: ॥४७॥ विमला-भवनों के दीर्घ छायासमूह, धवल चन्द्र रूप सिंह के भय से भागे हुये तिमिरगज की पङ्कमयी पदपङ्क्ति के समान दिखाई दे रहे हैं ॥४७॥ अथेन्दोनभोमध्येऽवस्थितिमाहतंसुण्णमन्तबिम्बो जालन्तरणिग्गओसरन्तमऊहो। भिण्ण विवरन्धआरो भग्गच्छाहिपसरो विलग्गइ चन्दो ॥४८॥ [तिर्यगुन्नमबिम्बो जालान्तरनिर्गतापसरन्मयूखः । भिन्नविवरान्धकारो भग्नच्छायाप्रसरो विलगति चन्द्रः ।। ] चन्द्रो विलगति नभोमध्यमारोहतीत्यर्थः । कीदृक् । तिर्यग्देशादुन्नमदूर्ध्वमुपरिगच्छबिम्बं यस्य । मस्तकोपरि स्थितेरिति भावः । यद्वा-प्रथमं तिर्यग्भूतं सत्पश्चादुपरिगच्छबिम्बं यस्य । ऊ/रोहणेन तीर्यग्भावादप्यसमत्वादित्यर्थः । एवं प्रथमं जालान्तरेण निर्गता निःशेषतो गृहं प्रविष्टाः, अथापसरन्तो गृहाबहिनिगच्छन्तो मयूखा यस्य । यदा चन्द्रस्तिर्यस्थित:, तदा तिर्यग्वर्तिजालसांमुख्येन निःशेषतो गृहं प्रविष्टा रुचयः, संप्रति गृहमस्तकोपरि स्थित इति गृहं न प्रविशन्ती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy