________________
भाश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [३६७
रविबिम्ब विद्रुमवदाताम्र दृश्यते । कीदृक् । सिन्दूरेणाहतस्य स्पृष्टस्य गजेन्द्रकुम्भस्येव च्छाया कान्तिर्यस्य लोहितत्वात् । एवं मन्दरधातुभिः कलङ्कितस्य मथनसमये रज्जुभावेन घर्षणाद्रक्तीकृतस्य वासुकेर्मण्डलं वलयीभावस्तद्वनिश्चक्रलं वर्तुलमिति संध्याराग उक्तः ॥८॥
विमला-सूर्यमण्डल विद्रुम के समान लाल, सिन्दूर लगे गज के कुम्भस्थल के समान' कान्ति वाला एवं ( समुद्र मथनसमय में ) मन्दराचल के गरिकादि धातुओं से रञ्जित वासुकि के मण्डल के समान गोल दिखायी. देने लगा ॥ ८ ॥ अथ दिवसावशेषमाह
मउलेन्ति विसाहोआ छाआसामलइओसरं महिवेढम् । दिअसो कलावसे सो सिहरालग्गतणुआअवा धरणिहरा ।।६।। [ मुकुलायन्ते दिगाभोगाश्छायाश्यामलितोदरं महीवेष्ट (पृष्ट)म् ।
दिवसः कलावशेषः शिखरालग्नतनुकातपा धरणिधराः ।।] कला अवशेषो यस्य तथाभूतो दिवसः स्थित इत्यर्थात् । अत एव दिशामाभोगा विस्तारा मुकुलायन्ते संकुचन्ति प्रान्तेषु प्रकाशाभावात् । एवं छाया आतपाभावस्तया श्यामलितमुदरं यस्य तादृग्महीपृष्ठं जातमित्यर्थात् । एवं शिखरेषु आ ईषल्लग्नास्तनुकाः कृशा आतपा येषाम्, उच्चत्वात्, तथाभूता महीधरा जाताः । 'काष्ठा, त्रिंशत्तु ताः कलाः' इत्यमरः ॥६॥
विमला-दिन का थोड़ा-सा भाग शेष रह गया, अतएव (प्रकाश न रह जाने से ) दिशाओं का विस्तार संकुचित हो गया, पृथिवी पर अँधेरा फैलने लगा और पर्वतों के शिखरों पर ही थोड़ी धूप वर्तमान रह गयी ।। ६ ॥ अथ सूर्यावतरणमाह
अस्थगि अम्बपरिणए हिआअवरमम्मि सुरगअम्मि व दिग्रसे। दीसहि पल्हत्थन्तं विहडि अधाउसिहरं व दिणअरबिम्बम् ॥१०॥ [ अस्तनितम्बपरिणते हृतातपरजसि सुरगज इव दिवसे।
दृश्यते पर्यस्यद्विघटितधातुशिखरमिव दिनकरबिम्बम् ।।] दिनकरबिम्बं विघटितं गैरिक शिखरमिव पर्यस्यत्पतद्दश्यते । कुत्र सति । सुरगज ऐरावत एव दिवसे श्वैत्यात्प्राचीतः प्रतीचीगतत्वाच्च अस्तस्य चरमाचलस्य नितम्बे परि सर्वतोभावेन नते उपनते प्राप्ते । दिनस्य तत्रैव पर्यवसानात् । पक्षे परिवृत्य कृताघातत्वानिविष्टदन्ते सति । कीदृशि । हृतं पातितम् आतप एव रजो येन । गैरिकस्येत्यर्थात् । अत एव आतपस्य रक्तता लभ्यते तदुद्धलनादेव च तदानीं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org