________________
३६८ ]
सेतुबन्धम्
[ दशम
दिन दिग्गगनादीनामपि रक्तत्वमिति भावः । अन्योऽपि परिणतः करी उद्भनिताभिर्धलिभिः खं दिगादीनि च पूरयशिखरं पातयतीति ध्वनिः । 'करदन्तकृताघातो गजः परिणतो भवेत्' इति कोषः । अत्र दिनगजयोः, किरणरजसोः, रवि शिखरयोश्च साम्यम् ॥१०॥
विमला-गैरिक पर्वत के नितम्ब ( उपत्यका ) भाग पर दाँतों से आघात करने वाले ऐरावत के समान दिवस जब अस्ताचल के नितम्ब पर पहुँच गया और उसने आतपरूप रज का पतन किया उस समय रविबिम्ब, विच्छिन्न गैरिकशिखर के समान गिरता दिखायी पड़ा ।।१०॥ अथ कमलानां संकोचमाहकमलाण दिग्रसविगमे संबज्झन्ति गलिभाअवकिलिन्ताई। मअरन्दमत्तमहुअरचलपक्खुप्पुसियमहरसाइ दलाई ॥११॥ [ कमलानां दिवसविगमे संबध्यन्ते गलितातपक्लाम्यन्ति (क्लान्तानि)।
मकरन्दमत्तमधुकरचलपक्षोत्प्रोञ्छितमधुरसानि दलानि ॥] दिवसस्य विगमे सायं कमलानां दलानि संबध्यन्ते संकुचन्ति । किंभूतानि । गलितेनातपेन क्लाम्यन्ति निष्प्रभाणि । तेषां दिम एव कान्त्युदयात् । एवं मकरन्देन मत्तस्य मधुकरस्य चलपक्षाभ्यामुत्प्रोञ्छितो मधुरसो येषु तानि । मकरन्दतुन्दिलतयोड्डयितुमपारयतोऽबहिर्भवतोऽपि दलेषु पतनेन पक्षयोरसंवरणादिति भावः । मत्तस्य पतनमुचितमेवेति ध्वनिः ॥११॥
विमला-दिवस का अवसान होने पर आतप के विनाश से क्लान्त कमलदल संकुचित हो गये एवं मकरन्द से मत्त मधुकरों के चंचल पंखों ने उनका मधुरस पोंछ डाला ॥११॥ अथ रविरावणयोरवस्थातौल्यमाह
वीवन्ति दो वि सरिसा कइचलणाइद्धमहिर असमकता । भत्थाअन्तो प्र रई आसण्णविणासणिप्पहो दहवप्रणो ॥१२॥ [ दृश्येते द्वावपि सदृशौ कपिचरणाविद्धमहीरजःसमाक्रान्तो।
अस्तायमानश्च रविरासन्नविनाशनिष्प्रभो दशवदनः ॥]
अस्तायमानोऽस्तं गच्छन् रविः, निकटवर्तिना विनाशेन निष्प्रभो रावणश्च द्वावपि सदृशो दृश्येते । बीजमाह-कपीनां चरणैराविद्धान्युत्थापितानि यानि सुवेलमहीरजांसि तैः समाक्रान्तौ। अत्र धूलीनां रविपर्यन्तगमनेन कपीनामुद्धतचलनम् । रवेरपि निष्प्रभत्वं च सूच्यते । शिरसि कपिचरणोद्भूतधूलिपतनं सहत एवेत्यस्ता. यमानरविसाम्येन रावणस्याचिरेण मृत्युरुक्तः । आसन्न मृत्युः स्वत एव निष्प्रभो भवतीति ध्वनिः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org