________________
दशम आश्वास: अथ सुवेलारोहणमाह
अह णिप्रअमहिहरेस व सुवेल सिहरेसु णिवडिअवीसस्थम् । परिसं ट्ठिअं हमम्मि व अहम्मि वि वहमुखे पवंगमसेण्णम् ।।१।। [ अथ निजकमहीधरेष्विव सुवेलशिखरेषु निर्वलितविश्वस्तम् ।
परिसंस्थितं हत इवाहतेऽपि दशमुखे प्लवंगमसैन्यम् ।।] अथ सुवेलदर्शनोत्तरं प्लवंगमसैन्यं सुवेल शिखरेषु परिसंस्थितमावासग्रहणं चकारेत्यर्थः । निजकेषु महीधरेष्विव । यथा स्वीयशैलेषु स्थितिः क्रियते । एतेन स्वेच्छाचारविहारक्षोभामोटनादिना वानराणामभयत्वं रावणस्य च प्रतापभङ्गः सूचितः । तदुक्तम्-अहतेऽपि सकलसामग्रीसचिवे विद्यमानेऽपि दशमुखे हत इव सति निर्वलितं सानो सानौ पृथग्भूतं विश्वस्तमक्षुब्धमिति सैन्य क्रिययोरन्यतरविशेषणम् । यद्वा निजकेति साहचर्येण निर्वलितेति हत इवेति साहचर्येण परिसंस्थितमिति योज्यम् (?)। अत्र निर्वलितेतिपदेन कपीनामुत्साहगर्वयोः सुवेलविस्तारस्य च प्रकर्ष उक्तः । निजमहीधरसुवेलशिखरयोरुपमासंभवेत्युत्प्रेक्षा चमत्कारिणी ॥ १ ॥
विमला-सुवेल का दर्शन कर चुकने पर वानरों ने शिखर-शिखर पर अलगअलग, निश्चिन्त हो अपने ही पर्वतों के समान अपना-अपना आवास ग्रहण किया; मानों जीवित होते हुये भी रावण मर चुका था ।।१।। मथ सुवेलोपमर्दनमाह
रइणा वि अणुच्छण्णा वीसत्थं मारुएण वि अणालिद्धा । तिअसेहि वि परिहरिआ पवंगमेहि मलिआ सुवेलुच्छङ्गा ॥२॥ [ रविणाप्यनूत्क्षण्णा विश्वस्तं मारुतेनाप्यनालीढाः। __ त्रिदशैरपि परिहृताः प्लंवगमै दिताः सुवेलोत्सङ्गाः ।।]
ये रविणाप्यनुत्क्षुणा ऊर्ध्वमनाक्रान्ताः किरणानामगम्यत्वात् । विश्वस्तं यथा स्यादेवं मारुतेनाप्यनालीढा अस्पृष्टाः । कुञ्जकन्दरादिबाहुल्येन भयात् । त्रिदशैविमानचारिभिरपि परिहता अनाक्रान्ता रावणवासात् । ते सुवेलोत्सङ्गाः प्लवंगमैमर्दिताः क्षोभामोटनादिनाखिलीकृता इत्यर्थः । एतेन कपीनामुत्साहोत्कर्षों रावणापकर्षश्च सूचितः । यद्वा सर्वत्र 'कुञ्जकन्दरादिगहनत्वेन रावणादिभयेन च' इति योजनीयम् । विरोधालंकारः ।। २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org