________________
आश्वासः ]
रामसेतु प्रदीप - विमलासमन्वितम्
[ ३६७
वराहस्तेन वञ्चितो निष्फलीकृतप्रयत्नः अत एवाहतस्ताडित इव सिंहो यत्र तम् । पङ्कादुत्तीर्णो वराहः सिंहेनाक्रान्तोऽपि तदगम्ये पङ्क एव परावृत्य प्रविष्ट इत्यर्थः । एवं सरःसलिलोदरे निपतितोऽथ निजभरेणैवास्तमितो मग्नः कनकस्य हिरण्मयवृक्षस्य पल्लवगुच्छो यत्र तम् ||४८ ||
विमला – यहाँ पङ्क्त से वराह निकला और सिंह ने उस पर आक्रमण कर दिया, अतः वह पुन: उसी ( अगम्य ) पङ्क में लौट कर प्रविष्ट हो गया । इस प्रकार वराह के द्वारा असफल प्रयत्न किया गया सिंह आहत - सा छटपटा कर रह गया । हिरण्मय वृक्ष का पल्लवगुच्छ सरोवर के सलिल में गिरा और अपने ही भार से उसके भीतर डूब गया || ४८ ॥
शिखरोत्कर्षमाह
हसिर सचलणील मेहला वणिअं
बद्धजोइसा उव्वमेहलावण्णिअम् । सिहरेहि बाहूहि व पच्छान्तअं
अंविसाणं मित्र पच्छा अन्तअम् ॥४६॥
[ नभः श्रियं सजलनीलमेघलावण्यां
बद्धज्योतिषापूर्व मेखलावणिताम् । शिखरैर्बाहुभिरिव प्रच्छादयन्तं
न्यु दिशामिव पश्चादायान्तम् ॥ ]
किंभूतम् । बाहुभिरिव बाहुप्रायैः शिखरैर्नभः श्रियं प्रच्छादयन्तं तिरोदधतम् । एतावता शिखराणां गगनाधिकदेशत्वमुक्तम् । नभः श्रियं कीदृशीम् । सजलनीलमेघैलावण्यं सौन्दर्यं तद्विशिष्टाम् । यद्वा सजल मेघस्येव लावण्यं यस्याः । श्यामत्वात् । अत्र समासोक्त्या सुवेलस्य नायकत्वं नभः श्रियो नायिकात्वं प्रतीयते । तत्र नायिकामपि किंभूताम् । सकलमेघलावण्याम् । सकलः कलया सह वर्तते यो मेघः कालागुरुस्तेन लावण्यं यस्यास्ताम् । 'भेवः कालागुरुर्मतः' इति कोषः । एवं बद्धं ज्योतिर्येन तेन बद्धज्योतिषा नक्षत्रेण अपूर्वो मेखलाया वर्णो विच्छित्तिस्तां प्रापि तम् । इति नक्षत्रलोकस्य मेखलावर्तित्वमुक्तम् । नायिकापि बद्धज्योतिरपूर्व मेखलया वर्णिता स्तुता भवति । उत्प्रेक्षते -- पश्चादायान्तमागच्छन्तमागमिष्यन्तं वा वर्तमानसामीप्ये लट् । दिशां मन्युमिव प्रच्छादयन्तमित्यन्वयः । नभः श्रीरूपनायिकां मत्समीपवर्तिनीं दृष्ट्वा प्रतिनायिकारूपा दिशो मन्युमाचरिष्यन्तीति नायिकागोपनं तन्मन्युगोपनपर्यवसन्नमेवेत्यर्थः । कामुकोऽपि प्रतिनायिकां दृष्ट्वा निकटस्थां नायिकां भुजादिना गोपयतीति ध्वनिः ॥ ४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org