________________
३६६ ] सेतुबन्धम्
[ नवम प्रथमे-रम्यचन्द्ररागच्छदम् ....... 'पद्मरागादिमणितेजस्तेन छद आवरणं यस्य तम् । यद्वा रम्याश्चन्द्ररागच्छदाः, चन्द्रः कर्पूरः, रागः पद्मरागादिलौहित्यम्, छदो वृक्षादिपत्रम्, यत्र तादृशम् । यद्वा रम्येण चन्द्ररागेण चन्द्रकान्तेन च्छद आवरणं यस्य तम् । यद्वा रम्य चन्द्र रागाच्छकम्, रम्यचन्द्रस्य रागेण उद्द्योतेन अच्छं निर्मलं कं शिरो यस्य तम् । अथवा रम्य चन्द्ररागवद् अच्छं कं जलं यत्र । यद्वा रम्येण चन्द्ररागेण उदयकालीनचन्द्रकान्त्या छदा यस्य तम् । इति चन्द्रोदयाधारत्वेनोच्चत्वमुक्तम् । द्वितीये-रम्यकंदरावृक्षकम् । रम्याः कंदरावृक्षा यत्रेत्यर्थः । यदा वृक्षशब्दस्य रित्वं न भवति तत्र च वलोपे अकारस्तिष्ठति तेन अच्छ' इति वृक्षवाची । यद्वा रम्यौ कंदरावृक्षौ, कंदराकच्छौ वा यत्र । 'जलप्रायमनूपं स्यात्पुसि कच्छस्तथाविधः' इत्यमरः । 'कच्छस्तृणं सताकच्छे' इत्यन्यत्र । यद्वा रम्यकंदरा. च्छकम्, रम्यकंदरासु अच्छं निर्मलं कं जलं यत्र । यद्वा रम्यकंदराक्षकम् , रम्या:, कंदरासु अक्षका बिभीतका यत्र । यद्वा रम्यचन्द्र रागच्छन्दकम् , रम्यकपूरस्य रागेण तद्विषयकानुरागेण च्छन्दकम् । अन्यत्र गमनवारकम् । यद्वा रम्यकंदराकक्षकम् , रम्येण चम्पकेन कंदरया च कक्षा अभिमानं यस्य तम् । तृतीये-सानग्रहनि:श्यामाग्रकम, साङ्गः श्रेष्ठः ग्रहैनक्षत्रनिःश्यामं तेजःशालितया श्यामताशून्य. मग्रकं शिरःप्रदेशो यस्य । अथवा सह अग्रग्रहेण मुख्यग्रहेण वर्तते यत्तत्साग्र ग्रहम् । अत एव निःश्याममग्रकं यस्य । धवलशृङ्गमित्यर्थः । चतुर्थे---स्वर्गग्रहणीसामग्रयम्, स्वर्गग्रहणीनां स्वर्गबन्दीनां सामग्र्यं साकल्यं यत्र । रावणेन तासां तत्रैव धार‘णात् । 'चन्द्र : सुधांशुक' रधम्मिल्लस्वर्णवारिषु । रम्यं मनोहरे रम्या रात्रौ रम्यश्च चम्पकः ।।' इति सुन्दरीछन्दः ॥४७॥
विमला—यहाँ रम्य ( चन्द्र ) कर्पूर, ( राग ) पद्मरागादि की लाली, (छद) वृक्षादि के पत्र हैं अथवा रम्य ( चन्द्रराग ) चन्द्रकान्तमणि से इसका ( छद) आवरण है। यहाँ रम्य कन्दरावृक्ष हैं। इसका शिरःप्रदेश श्रेष्ठ नक्षत्रों से श्यामताशून्य है । रावण स्वर्ग के सकल लोगों को बन्दी बना कर यहीं रखता है ॥४७॥ पङ्कबाहुल्यमाह
पङ कुत्तरन्तलङ्घि प्रपरिवत्तवराहवञ्चिाहअसीहम् । सरसलिलोपणिवडिअणि अ अभरस्थमिकणअपल्लवगोच्छम् ।।४।। [ पङ्कोत्तोर्णलचितपरिवृत्तवराहवञ्चिताहतसिंहम्
सरःसलिलोदरनिपतितनिजभरास्तमितकनकपल्लवगुच्छम् ॥ पङ्कादुत्तरन्सन् लङ्घितोऽत्सिहेन, अथ परिवृत्तः, पुनः पङ्क एव प्रविष्टो यो १. प्राकृतशब्दानुशासनेनेदं साधितम, अन्यथोदितरीत्या तादृशरूपानिष्पत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org