________________
३६४ ]
सेतुबन्धम्
[ नवम
देरामः पीडा तस्योदयो यस्य । नित्यमुपमर्दात् । अम रोगे धातुः । द्वितीयपदे-- दरीवराख्यश्यामोदकम्, दयाँ कंदरायां वरा आख्या नाम यस्यास्तया त्रिफलया श्याममुदकं यस्य तम् । यद्वा दरीवराख्वसामोदकम्, दर्यां वराख्येन' शिल्हकनाम्ना सुरभिद्रव्येण सामोदकं ससौरभं कं मस्तकं जलं वा यस्य तम् । यद्वा दरीवराक्षसामोदकम्, दर्यां वनमक्ष मिन्द्रियं येषां ते वराक्षाः श्रेष्ठेन्द्रिया योगिनो यक्षा वा तेषामामोदेन आनन्देन सह वर्तते यस्तम् । यद्वा दरीचराक्षश्यामोदकम् , दरीचरेण अक्षेण विभीतकनाम्ना वृक्षेण श्याममुदकं यस्य तम् । यद्वा दरीचराणां किनराणामक्षस्येन्द्रियस्यामोदेन सह वर्तते यस्तम् । यद्वा दरीचराणामक्षेण छूतेन य आमो. दस्तेन सहितम् । आधारभूतत्वात् । यद्वा दरीवराक्षसामोदयम्, दरीवराक्षाणां योगिनां, साम्नां वेदानामुदयो यत्र तम्। तृतीयपदे-विशदरूप्यप्रभातान्तम् , विशदेन स्पष्टेन रूप्येण रजतेन प्रभातो दीप्यमानोऽन्तः स्वरूपं यस्य तम् । विशदरूप्यप्रभाभिः कान्तम् । कमनीयमित्यर्थः । चतुर्थपदे-विषतरुप्रभान्तकम् , विषतरूणां प्रभाभिरनुभावैरन्तकं नाशकम् । यद्वा विषतरुप्रभातान्तम् , विषतरुप्रभाभिस्तोन्तं ग्लानम् । अथवा विषतरुभिः प्रभातोऽन्तोऽवसानं यस्मात्तम् । यद्वा विषतरुप्रभाततम् , प्राकृतत्वात , प्रभातो दीप्तो विषतर्यत्र तम् । ततं विस्तीर्णम् । रूप्यं प्रशस्तरूपे स्याद्रूप्यं रजतमिष्यते । वरोऽभीष्टे देवतादेवरो जामातृसिल्हयोः ।। त्रिफलायां वरा प्रोक्ता शतावर्यां वरीवरा। श्रेष्ठऽन्यवत्परिवृतौ वरं कश्मीरजे मतम् ॥४४॥
विमला-यह बलवान राक्षस ( रावण ) को आनन्दजनक है। कन्दरा में ( वरा+आख्य ) त्रिफला के कारण इसका जल श्याम है। विशद रजत से इसका ( अन्त ) स्वरूप दीप्यमान है तथा यह विषतरुओं के (प्रभा) प्रभाव से नाशक है ॥४४॥ चन्दनवत्तामाह
जरढविसोसहिवेढिप्रभुअंगपरिहरि अचन्दणदुमक्खन्धम्। वोलन्तविसहरप्फणमणिप्पहाहअविराइअद्दुमच्छाअम् ॥४५।।
[ जरठविषौषधिवेष्टितभुजंगपरिहतचन्दनद्रुमस्कन्धम् ।
व्यतिकामद्विषधरफणमणिप्रभाहतविराजितद्रुमच्छायम् ॥] जरठाभिविषौषधिभिर्वेष्टिताः परिवृता अत एव भुजंगैः परिहृता विषनाशकज्वालादुःस्थतया त्यक्ताश्चन्दनद्रुमाणां स्कन्धाः प्रकाण्डानि यत्र तम् । अत एव व्यतिक्रामतामन्यत्र गच्छतां विषधराणां फणामणिप्रभाभिराहताः स्पृष्टाः अत एव विराजिता द्रुमाणां च्छाया यत्र । सर्पसंचारेण फणामणिकान्तिप्रसरणाद्रुमच्छायापि कान्तिमती भवतीत्यर्थः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org