________________
आश्वासः ]
रामसेतुप्रदीप-विमलासमन्वितम्
[ ३६३
यद्वा मणीनां प्रथमः खात इति देशी । तत्र श्यामोदकम् । श्यामत्वादुत्कर्षो जलस्य । द्वितीयपदे-मणिपहऱ्यासामोदकम, मणीन्पान्तीति मणिपा: यक्षाः, सर्पा वा तेषां हर्म्य क्रीडागृहं यत्र स मणिहर्म्यः । एवं सह आमोदेन' वर्तते सामोदः । मणिपश्चासौ सामोदश्चेति तम् । तथा प्रशंसायां कन् । अथवा मणिपानां हम्यं सौधरूपं, सामोदकम् आमोदसहितमस्तकम् । कर्मधारयः। आमोदः सौरभं हर्षो बा । अथवा मणिपानां हर्पा ससौरभं कं जलं यत्र तथाभूतम् । तृतीयपदेसर:शरण्य निवकम्, सरःशरण्यानां सरोवरमाश्रितानां निवकम् । न तु तापकम् । शैत्यप्रदत्वात् । टुदुङ् उपतापे। ण्वुल । यद्वा सरसारण्यनिर्दावकम्, सरसारण्ये सजलवने निर्दावकम् । निर्गतो दावो यस्मात्तम् । दावानलशून्यमित्यर्थः । अथवा सरसारण्ये निर्गतो दावस्य को वह्निर्दावानलरूपो यत्र तम् । अथवा सरसारण्ये निःशेषितो दावो वनं यत्र, तादृशं कं शिरो यस्येत्यर्थः । यद्वा सर. सारण्यनिद्राप्रदम्, सरसमरण्यं यस्मान्स सरसारण्य : समुद्रस्तस्य निद्राप्रदं निद्रया स्वापकम् । अवष्टम्भहेतुत्वात् । चतुर्थप दे-स्मरशरज्ञनिद्राप्रदम्, स्मरशरं जानन्तीति स्मरशरज्ञा गन्धर्वास्तेषां निद्राप्रदं निद्राप्रदं स्थान वा । यद्वा सरसारण्य निद्रातकम्, सरसारण्ये निद्रातो जातनिद्रः को मयूरो यत्र तम् । यद्वा सरसारण्यनिर्दावकम्, सरसारण्ये निर्गता: सुमे रोरागता दावा देवा यत्र तादृशं कं मस्तकं यस्य तम् । 'को ब्रह्माग्न्य निलार्केषु शिखरे सर्वनाम्नि च । पानीये च मयूरे च मुख शीर्षमुखेषु कम् ।। दावो देव इति ख्यातो वनाग्निवनयोरपि ।' इत्युभयत्रापि विश्वः । 'आमोदो हर्षगन्धयोः' इति धरणिः ॥४३।।
विमला—यहाँ मणिमय विवर में ( इन्द्रनीलादि के सम्बन्ध से ) जल श्याम है । यह [ मणिप ] यक्षों अथवा सर्पो का क्रीडागह है तथा [ सामोदक ] भामोदयुक्त है। यह [ सर:शरण्य ] सरोवरों का आश्रय लेने वालों को [ निर्दावक ] असन्तापकारी है एवं [स्मरशरज्ञ ] कामदेव के शर को जानने वालों ( गन्धर्वो ) का निद्राप्रद स्थान है ।।४३।। गुणान्तरमाह
दरिअरक्खसामोअअं दरिअरक्खसामोअअम । विसअरुप्पहाअन्तरं विसअरुप्पहाअन्तमम् ॥४४॥ [दृप्तराक्षसामोदकं दरीवराख्यश्यामोदकम् ।
विशदरूप्यप्रभातान्तं विषतरुप्रभान्तकम् ॥] एवं प्रथमपदे-दृप्तराक्षसामोदकम्, दप्तस्य बलवतो राक्षसस्य रावणस्यामो. दकमानन्दजनकम् । यद्वा दृप्तराक्षसामोदकम्, रावणस्यैव आमोदः सौरभं तत्प्रदम् । नानासुगन्धिद्रव्यसत्त्वात् । यद्वा दृप्तराक्षसामोदयम्, दृप्तराक्षराद्रावणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org