________________
३६२]
सेतुबन्धम्
[ नवम
रजतशिखारुग्गमैस्ताराङ्गदम् , तुङ्गा रजतस्य शिखा शिखरं तस्या रुक्कान्तिस्तद्गमैस्तत्संचारैस्तारमुद्भटमङ्गदं यस्य तम् । वलयीभूतरजतकान्तेरङ्गदत्वेन शिखरस्य बाहुत्वमित्यर्थः । यद्वा तुङ्गरयासिधरोद्गमैस्ता रङ्गकम, तुङ्गो रयो वेगो येषां तथाभता असिधरा मृगयाशालिनो राक्षसास्तेषामुदगमैरूर्वसंचारैः । ता तावदित्यर्थे । रङ्गक रङ्गजनक मस्तकम् । अथबा तारङ्ग तरङ्ग समूहः तद्विशिष्टमस्तकमित्यर्थः । समूहे अन् ( अण्)। यद्वा तुङ्गरतकशिखारुग्णमेघितारम् , तुङ्गे उच्चप्रदेशे रतं स्थितं यत्कं शिखरं तस्य शिखया रुग्णा विद्धा मेधिनी मेघविशिष्टा तारा येन तम् । गतम् । ज्ञातमित्यर्थः । एवं द्वितीयपदे-सिंहनिधागतलोहितमुक्तारङ्गदम्, सिंहानिःशेषतो दर्शयति ये अगा वृक्षाः प्रत्यन्तपर्वता वा सिंहाधिष्ठानभूतास्तेषां सिंहनिधानानां तले ऊहिताभिर्लक्षिताभिरात्सिहनिहतकरिकुम्भस्खलिताभिमुक्ताभी रङ्गदं कौतुहलप्रदम् । तृतीयपदे-गुरुकधैर्यनिर्बाधितबहुयुगसखगम , गुरुणा धैर्येण निर्बाधितमपीडितम्, अखण्डितमिति यावत, निर्व्याधितं वा व्याधिशून्यम् । अथ च बहूनि युगानि स्यति खण्डयति अतिवाहयति यस्तम् । षो धातुः । कर्मधारयः । निजविपत्ति विनैव चातिक्रान्तनानायुगमित्यर्थः । खमाकाशं गच्छतीति खगः । अत्युच्चमित्यर्थः । चतुर्थे पदे-उदधिस लिलशङ्कमानसरऋजुकशङ्खकम, उदधिसलिलं शङ्कमाना अत एव सरसि ऋजुकानि मुखानि येषां तथाभूताः शङ्खाः के शिरसि यस्य तम् । समुद्र जलबुद्ध या नदीवम॑ना शिरःसरःप्रविविक्षु शङ्खकुलमित्यर्थः । यद्वा उदधिसलिलशङ्कान्तःसरऋजुकशङ्खम, उदधिसलिलशङ्कया अन्तःस रोमध्यप्रविष्टा ऋजुका: संमुखीकृतमुखाः शङ्खा यत्र एतादृशं कं पानीयं यस्य, नद्यादीनामित्यर्थात्, तम्। समुद्रशङ्कास्पदत्वेन नद्यादिजलानां महत्त्वात्सुवे. लस्य महत्त्वम् इति ब्रूमः । विस्तरभयादन्यदुपेक्षितम् ।।४२॥
विमला-यह ( सुवेल ) उन्नत रजतशिखरों से नक्षत्रों का स्पर्श करता है, सिंहों से निहत गजों के रुधिर से मुक्ताओं को रंग देता है । इसने गुरु धैर्य ( स्थिरता ) से बहुत युगों का नाश निर्वाहित किया है-यह बहुत प्रलय में भी नष्ट नहीं हुआ। यहां समुद्र के शंख एक साथ सर में प्रविष्ट हैं ।।४२।। गुणान्तरमाह
मगिपहम्मसामोअअं मणिपहम्मसामोअश्रम । सरसरण्णणि दावअं सरस रणणिद्दावनम् ।।४३।। [ मणिप्रहर्मश्यामोदकं मणिपहर्म्यसामोदकम् ।
सरःशरण्य निवकं स्मरशरज्ञनिद्राप्रदम् ॥] एवं प्रथमपदे--मणिप्रहर्मश्यामोदकम्, मणीनां प्रहर्मो मणिमयं विवरं तत्र श्याममुदकं यत्र तम् । इन्द्रनीलादिसंबन्धान्निम्नतया कुञ्जबहुलत्वेनातपाद्यभावाच्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org