________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[३६१
हिलिह्यमाना जिह्वया स्पृश्यमाना शिला यत्र । आतपशुष्कक्षारोदशीकर लवणरसलोभान्महिषा यत्र शिलां लिहन्तीत्यर्थः ॥४१॥
विमला-यहाँ मध्याह्न काल के तीव्र आतप से द्रवित हरितालों के सौरभ से मृग मूच्छित हो जाते हैं तथा आतप से खारे जलशीकरों के शुष्क हो जाने पर लवण रस के लोभ से भैंसे शिलाओं को चाटते हैं ।।४१॥ रौप्यं शिखरमाहतुङ्गरअअसिहरुममेहि तारं गअं
___ सोहणिहअगप्रलोहिअमोत्तारङ्गअम् । गरुअधीरणिवाहिजबहुजुप्रसंखअं
उअहिसलिलसंकन्तसरुज्जु असङ्खअम् ॥४२॥ [ तुङ्गरजतशिखरोद्गमैस्तारां गतं
सिंहनिहतगजलोहितमुक्तारङ्गदम् । गुरुकधैर्यनिर्वाहितबहुयुगसंक्षय
मुदधिसलिलसंक्रान्तसरऋजुकशङ्खकम् ॥] तुङ्गानां रजतशृङ्गाणामुद्गमैरुच्छायस्तारा नक्षत्रं गतं मिलितम्, समानवर्णत्वात्संगतं वा। मिश्रितमित्यर्थः । एवं सिंहनिहितस्य गजस्य लोहितेन रुधिरेण मुक्तानां रङ्गदं रागप्रदम् । एवं गुरुकेण धैर्येण स्थिरतया निर्वाहितोऽतिवाहितो बहूनां युगानां संक्षयो नाशो येन तम् । बहुतरप्रलयेऽप्यनष्टमित्यर्थः। एवमुदधिसलिलात्संक्रान्ताः सरसि ऋजुकाः संमुखाः शङ्खका यत्र । सरःप्रविष्टकमुखसमुद्रशमित्यर्थ इति संप्रदायः ॥
वयं तु-ताराङ्गकम्, तुङ्गरजतशिखरोद्गमैस्तारमुद्भटमङ्गकं वपुर्यस्य तम् । यद्वा ताराङ्गदम्, तुङ्गरजतशिखरोद्गमैस्ताराणामङ्गं द्यति खण्डयति यस्तम् । शिखरैस्तारादेहभेदकम् । दो अवखण्डने धातुः । यद्वा ताराङ्गदम्, 'तकारस्तरणिः प्रोक्तः' इति कोषः । तस्य सूर्यस्य अरङ्गदम् । तादृशशिखरै
विरोधकत्वादरङ्गप्रदमित्यर्थः । रङ्ग उल्लास: । यद्वा ताराङ्गतम् । तादाशिखरोद्गमैस्ताराणामङ्गता गुणीभावो यस्मात्तम् । रजतशिखरकान्तिभिस्ताराणां तिरोहितत्वादित्यर्थः। अथवा तुङ्गे उच्चप्रदेशे रजतं रूप्यं, शिखरं माणिक्यं, तदुद्गमैस्तारं निर्मलं, गतम् । ज्ञातमित्यर्थः। तथा च-'निर्मले तारमाहुः' इति कोषः । यहा 'तुङ्गरजतशिखरोग्रमेधिताङ्गतम, तुङ्ग यद्रजतशिखरं तदेव उग्रो मेधि मिकर्मावलम्बनस्तम्भस्तेन ताराणामङ्गता अप्राधान्यं यस्मात् । शिखरस्यैव महत्त्वेन प्राधान्यं, ताराणां तु शिखरलग्नत्वेन क्षुद्रत्वादिति भावः । यद्वा तुङ्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org