SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ २१ विमला - (सामयिक, अतएव सरस होने के कारण ) सप्तच्छद ( छतिवन) की गन्ध एवं कलहंसों का कलरव मनोहर लग रहा है तथा ( असामयिक, अतएव विरस होने के कारण ) कदम्बगन्ध एवं मयूरध्वनि हृदय को अग्राह्य हो रही है ||२३|| पुनरपि सिंहावलोकितेनेन्द्रधनुराह - पीणपत्रोहरलग्गं दिसाणं पवसन्तजलअसम प्रविइण्णम् । सोहागपढमइण्हं पम्माअइ सरसणहवअं इन्दधणुम् ||२४|| [ पीनपयोधरलग्नं दिशां प्रवसज्जलदसमयवितीर्णम् । सौभाग्य प्रथमचिह्न प्रम्लायति सरसनखपदमिन्द्रधनुः ॥ ] इन्द्रधनुरेव सरसं तात्कालिकं नखपदमिति रूपकम् । प्रम्लायति प्रकर्षेण म्लानिमाप्नोति । विगलतीति यावत् । सरसत्वेन लौहित्यान्नखपदस्येन्द्रधनुस्तौल्यम् । कीदृशम् । दिक्षु पीनो यः पयोधरो मेघस्तत्र लग्नम् । पुनः कीदृक् । प्रवसता गच्छता जलदकालेन वितीर्णं दत्तम् । सौभाग्यस्य सौन्दर्यस्य प्रथमं चिह्न लक्षणम् । तथा च प्रावृषि दिशां मांसल मेघलग्नेन्द्रधनुषा सौन्दर्यमासीत् । अथ शरदि यथा यथा मेघापगमस्तथा तथा तदविनाभावेन तदप्यपगतमिति भावः । नखक्षतमपि दिशां प्रौढाङ्गनानां पीनस्तनलग्नं सत्क्रमेण म्लायति । नखक्षतं कीदृक् । प्रवसता प्रवासशीलेन कामचेष्टया जलं जाड्यं ददातीति व्युत्पत्त्या जलदेन नायकेन समये प्रस्थानकाले वितीर्णं दत्तम् । अत एव सौभाग्यस्यानुरागस्य प्रथमं ज्ञापकम् । वर्षासु गृहे स्थित्वा शरदि प्रवासीभवता नायकेन प्रियास्तने सततस्मरणाय नखक्षतं कृत्वा गम्यत इति कामशास्त्रम् ||२४|| विमला -- प्रवासशील जलद काल के द्वारा प्रस्थान करते समय दिशाओं के पीन पयोधर ( १-मेघ, २-स्तन ) पर सौभाग्य- ( १ - सौन्दर्य, २ - सुहाग ) - चिह्नस्वरूप प्रदत्त इन्द्रधनुषरूप सरस (लाल ) दृश्यमान नखक्षत क्रमशः अन्तर्हित हो रहा है ||२४|| चन्द्रमण्डलमाह पज्जत्तसलिलधोए दूरलोक्कन्तणिम्मले गणनले । अच्चासणं व ठिकं विमुक्कपरभाअपाअडं ससिबिम्बम् ।। २५ ।। दूरालोक्यमाननिर्मले गगनतले । [ पर्याप्तसलिलधौते अत्यासन्नमिव स्थितं विमुक्तपरभागप्रकटं शशिबिम्बम् ।। ] गगने शशिबिम्बमतिनिकटवर्तीय स्थितम् । किंभूतम् । विमुक्तः परभागोऽन्यभागो मेवादिसंबन्धस्तेन प्रकटमतिव्यक्तम् । गगने कीदृशि । पर्याप्तं बहुतरं यत्सलिलं वर्षर्तुसंभवं तेन धौते प्रक्षालिते । एवं दूरादालोक्यमानं सन्निर्मलं यत्तादृशि । अयं भावः यथा वस्त्रादी क्षालिते मालिन्यापगमेन स्थितं रूपान्तरवद्रव्यं स्फुटं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy