________________
२० ]
सेतुबन्धम्
[ प्रथम
समुद्र को (लक्ष्मीसहित अपने पुनरागमन के प्रति ) उत्कण्ठित करने वाले, पहिले ही ( पञ्चमी को ) जगी हुई लक्ष्मी से सेवित मधुमथन ( नारायण ) जाग गये ॥२१॥
तारामाह
सोहइ विमुद्धकिरणो गअणसमुद्दम्मि रग्रणिवेला लग्गो । तारामुत्तावप्ररो फुडविहडिअमेहविप्पिस पुडमुक्की ।। २२ ।।
[ शोभते विशुद्धकिरणो गगनसमुद्र रजनिवेलालग्नः । तारामुक्ताप्रकरः स्फुटविघटितमेघसुक्तिसंपुटमुक्तः ॥ ]
गगनरूपे समुद्रे तारारूपमुक्ताप्रकरः शोभते । कीदृक् । विशुद्धः शुभ्रः किरणो यस्य तथा । एवं रजनिरेव वेला तीरं तत्र लग्नः । शर्वरीसमयलग्न इत्यपि । एवं स्फुटं यथा स्यात्तथा विघटिता ये मेघास्त एव शुक्तिसंपुटास्तेभ्यो मुक्त इतस्ततः प्रकीर्णः । शरदि मेघानां नानाखण्डत्वेन शुभ्रतया च विघटितशुक्तिसाम्यम् । अन्यत्रापि समुद्रे शुक्तिमुक्ता विशुद्धचाकचक्या मुक्तास्तीरलग्ना दीप्यन्त इति सर्वत्र रूपकम् ॥२२॥
विमला - गगनरूपी समुद्र में मेघरूपी विघटित सीपियों के सम्पुटों से मुक्त एवं प्रकीर्ण होकर शुभ्र किरणों वाली तारावलिरूपी मुक्ताराशि, रजनीरूप वेला (तीर) पर लगी हुई दीप्त हो रही हैं ।
विमर्श - सर्वत्र रूपक अलंकार है ॥२२॥
शरत्प्रौढिमाह
सत्तच्छप्राणं गन्धो लग्गइ हिश्रए खलइ कलम्बामोश्रो । कलहंसाणं कलरम्रो ठाइ ण संठाइ परिणअं सिहिविरुम् ||२३|| [ सप्तच्छ्दानां गन्धो लगति हृदये स्खलति कदम्बामोदः । कलहंसानां कलरवस्तिष्ठति न संतिष्ठते परिणतं शिखिविरुतम् ॥ ]
सप्तच्छदानां गन्धो हृदये लगति मनोहारीभवति । सामयिकत्वात् । कदम्बामोदः स्खलति हृदयग्राह्यो न भवति । असामयिकत्वादित्यर्थः । लगत्यपूर्वत्वादन्यतः संबध्यते स्खलत्यतिपरिचितत्वादस्वकालारमणीयत्वाच्च संबद्धोऽपि न स्वदत इति भावः । एवं कलहंसानां कलरवो हृदये तिष्ठति । सामयिकत्वादेव । न संतिष्ठते शिखिनां विरुतं ध्वनिः । असामयिकत्वादेवेत्यर्थः । अनवस्थाने हेतुमाह-परिणतं विरसम् । कदम्बामोदेऽपीदं विभक्तिविपरिणामेन योज्यम् । तथा च परिणाम - प्राप्तं सर्वमेव स्खलति न संतिष्ठते चेति ध्वनिः । समयजं सर्वमेव मनोहरमिति तात्पर्यम् ।।२३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org