________________
आश्वासः ]
रामसेतुप्रदीप - विमलासमन्वितम्
[ १६
दिवसा ईषच्छकच्छवि वहन्ति धारयन्ति । वसुआअशब्दः शुष्कवाची । कीदृशाः । स्निग्ध आलोको रवितेजो येषु ते । आकस्मिकमेघापायादालोकानामभिनवचैक्कण्यप्रतिभासनात् । एवं चोद्देश एकदेशस्तत्रासारो वेगवर्षणं तेन दृश्यमाना जलखण्डा यत्र । अत्रोत्प्रेक्षते - निर्मितं मज्जनसुखमर्थाज्जलेषु यैस्ते कृतमज्जना इव । तथा च शरदि वासरे कदाचिद्वर्षणं कदाचिन्नेत्येकदेशे जलसम्बन्धः परत्र शुष्कता । अत एव कृतमज्जना इवेत्युक्तम् । अन्येऽपि कृतमज्जनाः स्निग्ध आलोको दर्शनं येषां तथाविधा दरशुष्कतादशायां क्वचित्क्वचिद्दृश्यमानजलबिन्दवश्च भवन्ति । 'आसार : स्यात्प्रसरणे वेगाद्वर्षे सुहृद्वले' इति कोषः ||२०|
विमला - अभिनव स्निग्ध आलोक ( १ - रवितेज, २- दर्शन ) के कारण तथा किसी-किसी प्रदेश में वृष्टि होने से जलबिन्दुओं के दृश्यमान होने के कारण शरत्कालीन दिवस, जल में मज्जन करने के अनन्तर स्वल्प शुष्क से सुशोभित हो रहे हैं ||
भगवदुत्थानमाह
सुहसंमाणिणिद्दो
विरहाल सिमु विष्णुक्कण्ठो ।
प्रसुवन्तो विविबुद्धो पढमविबुद्धसिरिसेविप्रो महुमहणो ॥ २१ ॥ [ सुखसंमानितनिद्रो विरहस्पृष्टसमुद्रदत्तोत्कण्ठः । अस्वपनपि विबुद्धः प्रथमविबुद्धश्रीसेवितो मधुमथनः ॥ ]
मधुमथनो विबुद्ध उत्थितः । उत्थानकादशी बभूवेत्यर्थः । अस्वपन्नपि निद्रामलभमानोऽपि । देवानामस्वप्नत्वात् । अतः सुखं यथा स्यादेवं संमानिता आदृता निद्रा येन तादृक् । आलस्यादिना निद्राया आदरमात्रं न तु पारमार्थिकत्वमपीति भावः । पुनः कीदृक् । विरहस्पृष्टाय समुद्राय दत्ता उत्कण्ठा येन तादृक् । जागरणोत्तरं परमेश्वरस्यान्यत्र गमनशङ्कया विरहिणः समुद्रस्य कदा पुनरयमत्रायास्यति लक्ष्म्या च समं मदङ्क शयिष्यत इत्युत्कण्ठादानं तदानीमेवेति सुभगत्वमुक्तम् । एवं प्रथमविबुद्धया श्रिया चरणसंवाहनादिना सेवितः । पञ्चम्यामेव लक्ष्म्युत्थानात् । अथ च नारायणे जाग्रति मधुमथनो रामरूपो विबुद्धः । तदात्मकत्वात् । वर्षामेघापगमे लब्धचेष्टो बभूवेत्यर्थः । कीदृक् । विरहवैक्लव्येनास्वपन्नपि निद्रामनासादयन्नपि । एवं च विरहस्पृष्टश्चासौ समुद्रेण मुद्रासहितेन हनूमता दत्ता उत्कण्ठा यस्मै तादृशश्च । जानकीवियोगिनोऽभिज्ञानमुद्रामादाय गतं हनूमन्तं प्रति जानकीवार्ता - लाभायोत्पत्तेरित्यर्थः । एवं प्रथमोबुद्धया श्रिया कान्त्या सेवित आश्रितः । शरदागमेनाग्रिमव्यापारं प्रति साध्यवसायत्वेन मुखादिश्री समृद्धेरिति भावः ॥ २१ ॥
विमला - ( देवताओं के अनिद्र होने के कारण ) न सोते हुए भी निद्रा का सुखपूर्वक आदर करने वाले, ( जागने के बाद उनके अन्यत्र गमन कीशङ्का से ) विरही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org