________________
१८]
सेतुबन्धम्
[प्रथम
[धुतमेघमधुकरा घनसमयाकृष्टावनतविमुक्ताः ।
नभःपादपशाखा निजकस्थानमिव प्रतिगता दिशः ॥] दिशो निजकस्थानमिव प्रतिगता व्याघुटय पूर्वस्थानं गता इवेत्युत्प्रेक्षा । किंभूताः । नभ एव पादपस्तस्य शाखा इति रूपकम् । पुनः किंभूताः । धुता इतस्ततो गता मेघा एव मधुकग याभ्यस्ताः । एवं धनसमयो वर्षर्तुस्तेनाकृष्टा अथावनता अथ विमुक्ताः । तथा च वर्षर्तोरुपक्रमे दिशो मेघसंभारेणाकृष्टा निकटवर्तिन्य इव, मध्ये गगनदिग्व्यापिमेघबाहुल्येनावनता अधो वर्तुलीकृता इव, वर्षान्ते मेघापगमेन विमुक्ताः प्रसारिण्य इव ज्ञाता इति भावः । शरदि तथाभूतमेघसंबन्धस्त्यक्त इति तात्पर्यम् । अन्या अपि पादपशाखाः केनचित्प्रथममाकृष्यन्ते । पश्चादवनमय्य विमुच्यन्ते तदानीमुपमर्दैन धुता इतस्ततः संचारिणो मेघतुल्या मधुकरा याभ्यस्तथाभूता भवन्ति । स्थितिस्थापकसंस्कारेण च निजकस्थानमेव प्रतिगच्छन्तीति ध्वनिः । यद्वा 'दिश अतिसर्जने' ( इति ) धातुमहिम्ना दिश्यन्तेऽतिसर्यन्त उपदिश्यन्ते वा सुरतकार्याण्याभिरिति दिशः प्रौढाङ्गनास्ता निजकस्थानं प्रति गता: शरदि रात्री नायकमभिसृत्य प्रभाते स्वं स्वं गृहं गता इत्यर्थः । कीदृश्यः । धुता विपर्यासिता मेधा बुद्धिर्येन तद्धतमेधं मधु । तत्करे यासां ताः । पीतावशिष्टं मधु करे कृत्वा प्रतिनिवर्तन्त इत्यभिसारिकासंप्रदायः । ता अपि घनो निबिडः समयः संकेतो यस्य तादृशेन घनं यथा स्यादेवं समदेन मदसहितेन वा नायकेन संभोगानन्तरं सम्भोगार्थमाकृष्टाः कराभ्यामङ्कमानीतास्तदुत्तरमवनमिता उपमर्दविषयीकृता अथोपभोगानन्तरं विमुक्तास्त्यक्ताः । एवमिवशब्दस्याकर्षणान्नखपातप्रसाधा इव नखपातो नखक्षतं तदेव प्रसाधा प्रसाधनमिव यांसां ताः। तथा च नखक्षतालंकृता इवेत्यर्थः ॥१६॥
विमला-नभरूपी वृक्ष की दिशारूपी शाखाय, मानों वर्षाकाल में (आरम्भ में मेघसंभार से) आकृष्ट की गयीं, (मध्य में गगनव्यापी मेघबाहुल्य से ) अवनत की गयीं और ( अन्त में मेघों में अपगत हो जाने से ) विमुक्त होकर पूर्ववत् पुनः अपने स्थान पर पहुँच गयीं एवं ( तात्कालिक झकझोरों से ) उनके मेघरूपी भ्रमर तितर-बितर हो गये ।।१६॥ अथ दिवसमाह
अहिणवणिद्धालोमा उद्देसासारदीसमाणजललवा । गिम्माप्रमज्जणसुहा दरवसुअामच्छवि वहन्ति व दिनहा ॥२०॥
[अभिनवस्निग्धालोका उद्देशासारदृश्यमानजललवाः । निर्मितमज्जनसुखा दरशुष्कच्छवि वहन्तीव दिवसाः ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org