________________
२२]
सेतुबन्धम्
[प्रथम
प्रकाशते तथा वृष्टिजलक्षालिते विथति मेघरूपमालिन्यापगमादत्युज्ज्वले तथा स्वभावतः स्वच्छश्यामले धवलं विधुमण्डलमतिप्रकटमालोकितं लोकः । तदुक्तं श्रीहर्षेण–'सिते हि जायेत शितेः सुलक्ष्यता' इति । वस्तुतस्तु विशब्दस्याभाववाचितया विमुक्तोऽत्यक्तः परभागोऽन्यत: शोभा नीलाकाशकृतकान्तिविशेषस्तेन प्रकटं शुभ्रत्वादित्युन्नयामः । अत्रोत्प्रेक्षा ॥२५॥
विमला-वर्षाकालसम्भूत सलिल से पर्याप्त धुले हुए अतएव दूर से दृश्यमान एवं निर्मल गगनतल में मेघयुक्त अतएव अत्यन्त व्यक्त चन्द्रबिम्ब अतिनिकटबर्ती-सा दिखाई दे रहा है ॥२५॥ हंसागमनमाह
चिरआलपडिणिउत्तं दिसासु घोलन्तकुमुअरअवेल्लविअम् । भमइ अलद्धासासं कमलाअरदसणू सुअं हंसउलम् ॥२६॥
[चिरकालप्रतिनिवृत्तं दिक्षु घूर्णमानकुमुदरजोविलिप्तम् ।
भ्रमत्यलब्धास्वादं कमलाकरदर्शनोत्सुकं हंसकुलम् ॥] दिक्षु हंसानां कुलं समूहो भ्रमति धूर्णते। किंभूतम् । चिरकालेन परावृत्तम् । प्रावृषि मानसं गता हंसाः शरदि पुनरागताः । कुत्र । कमनीये जलाशये स्थातव्यमित्युल्लासेनाभित उड्डयन्त इत्यर्थः । एवं घूर्णमानैर्निशिं मन्दानिलप्रेरितैः कुमुदरजोभिविलिप्तम् । सरसि सरसि स्थितेरित्यर्थात् । एवलमब्ध आस्वादस्तृप्तिर्येन तथा । अग्रिमाग्रिमवासनया क्वचिदपि स्थर्याभावात् । अलब्धाशाकं वा । अलब्धा आशा आकाङ्क्षा येन तत्तथा । नानासरःसौभाग्यसौकर्येणकत्र मनोवृत्त्यभावात् । एवं कमलाकरस्याभिप्रेतसरसो दर्शने उत्सुकम् । वस्तुतस्तु निशि कुमुदाकरे कुमुदसौभाग्यसौकर्येण कुमुदवनवासमनुभूय तदुपमर्दैन तत्परागानुलिप्तं सत्प्रभाते कमलाकरस्य कमलाधिष्ठानसरसो दिदृक्षया भ्रमति । तदुक्तमलब्धास्वादम् । कुमुदकोषभोजनजन्यतृप्तावपि कमलकोषभोजनजन्यतृप्त्यर्थित्वादित्युन्नयामः ।।
ध्वनिपक्षे हंसः संन्यासिविशेषस्तत्कुलं भ्रमति । कीदृक् । चिरकालेन वर्षौ क्वचिदप्युषित्वा शरदि प्रतिनिवृत्तं पूर्वस्थानमागतम् । दिक्षु घूर्णमानम् । को पृथिव्यां मोदते कुमुदं तद्रजस्तेन विलिप्तम् । धूलीधूसरमित्यर्थः । यद्वा दिक्षु घूर्णमानं सत्कुत्सिता मुत्तीतिर्यस्मादेतादृशो यो रजोगुणस्तेन वेल्लितं प्रेरितम् । रजोगुणमहिम्ना भक्ष्याद्यर्थितया भ्रमतीति भावः । एवमलब्ध अशाकः शाक भिन्नो येन तत् । अत एव कमलाया लक्ष्म्या आकरस्य धनिकस्य दर्शने भोजनार्थितयोत्कण्ठितम् । तथा च स्वप्रयुक्त्या शाकमात्रलाभादतृप्ताः संन्यासिन: समीहितभिक्षार्थितया धनिक मन्विष्यन्तीति भावः ॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org