________________
३२८]
सेतुबन्धम्
[अष्टम
भात्तदानीं पुनरागतानीत्युत्प्रेक्षा व्यङ्गया। रचित इति वक्तव्ये रच्यमान इति वर्तमानार्थकशानच्प्रत्ययसंक्रान्तानीतिभूतार्थकक्तप्रत्ययाभ्यामागमनहेतुसेतुरचनस्य शीघ्रकारिता व्यज्यते । तदुक्तम्-'कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः' इति ॥ केचित्तु-सेतोरसिद्धी संदिग्धसीतालाभे रामे विप्रलम्भरूपकामावस्थानुभावत्वेन स्थितान्येतानि, सति सेतो सीतालाभेऽध्यवसायं तमपहाय प्रागध्यवसितसीतालाभत्वेनास्पृष्टेऽपि रावणे तदानीं सीतालाभानध्यवसायाद्विप्रलम्भरूपकामावस्थात्वेनैव संक्रान्तानीत्यर्थमाहुः । तदुक्तं कण्ठाभरणे-'चक्षुःप्रीतिर्मनःसङ्गः संकल्पोत्पत्तिसंततिः । प्रलापो जागरः कार्यमरतिविषयान्तरे ॥ लज्जाविसर्जनं व्याधिरुन्मादो मूर्छनं तथा। मरणं चेति विज्ञेयाः क्रमेण प्रेमपूष्टयः ॥' इति ।। संक्रान्तानीति । नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्' इत्येक शेषान्नपुंसकं बहुवचनं च ।।७।।
विमला-सेतु-रचना के पूर्व अरति (अन्य विषयों में अप्रीति), स्थूल उच्छास, निद्रा-नाश, विवर्णता एवं दौर्बल्यादि जो राम में अनुभाव रूप से स्थित थे, वे ही सेतुरचना हो चुकने पर राम से रावण में संक्रान्त हो गये ।।८।। सेतुं वर्णयति
अह थोरतुङ्गविअडो उ णिहणं सबन्धवं दहवअणम् । दोहाइ असलिलणिही क अन्तहत्थो व्व पसरियो से उवहो ॥८॥ [ अथ स्थूलतुङ्गविकटो नेतुं निधनं सबान्धवं दशवदनम् ।
द्विधायितसलिलनिधिः कृतान्तहस्त इव प्रसृतः सेतुपथः ॥]
अथ तथाविधरावणावस्थानन्तरं द्विधायितो द्विखण्डीभूतः सलिलनिधिर्यस्मादेवंभूतः सेतुपथः कृतान्तो यमस्तस्य हस्त इव बाहुरिव प्रसृतः । किमर्थम् । सबान्धवं दशवदनं निधनं नाशं नेतुम् । मारयितुमित्यर्थः । अन्योऽपि हस्तेनाकृष्य मार्यत इति भावः । किंभूतः । स्थूल: पुष्टस्तुङ्गश्च अत एव विकटो भयानकः । यमहस्तोऽप्येवमेवेत्याशयः ॥८॥
विमला-स्थूल ( पुष्ट ), तुङ्ग अतएव भयानक सेतुपथ, सबान्धव रावण को मारने के लिये समुद्र-सलिल को दो भागों में चीरकर फैला हुआ यमराज के हाथ-सा सुशोभित हो रहा था ॥८॥ उत्प्रेक्षान्तरमाहविसमेण पाइविसमं महिहरगरुएण समरसाहसगरुअम् । दूरत्येण वि भिण्णं सूलेण व से उणा दसाणणहिप्रअम् ॥८६॥ [विषमेण प्रकृतिविषमं महीधरगुरुकेण समरसाहसगुरुकम् । दूरस्थेनापि भिन्नं शूलेनेव सेतुना दशाननहृदयम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org