SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ माश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [ ३२७ सेतुपथो दृश्यते । किंभूतः । पवनेन विधूयमानानि कल्लोलाभिघातेन चाल्यमानानि सागरोदरे परिस्थितानि महान्ति शिखराणि यस्य तथा । क इव । उत्प्लवमान उड्डयमानो महीधर इव । महीधरः कीदृक् । विकटौ, विकटं यथा स्यात्तथेति वा, प्रसारितो पक्षी येन । पक्षिणः पक्षौ प्रसार्योड्डयन्ते इति स्वभावः । तथा च तुङ्गतया क्षुभितपार्श्वद्वयसलिलदोलायमानपक्षसमानाकारशिखरशालितया च सेतोरुत्प्लवमान गिरिसाम्यम् । गिरेरपि सपक्षत्वादिति केचित् । वस्तुतस्तु-उत्प्लवनं जलोपरिसंचारविशेषस्तमाचरन्महीधर इवेति व्याख्या । अत एव-शिखराणां प्रतिबि. म्बद्वारा सागरोदरपरिस्थितत्वपर्यन्तधावनम् । पक्षिणः पयसि पक्षी प्रसार्य संचायं च प्लवनं कुर्वत इति विकटप्रसारितेत्युक्तम् । पयसि पार्श्वयोर्वीचिद्वारा पवनचालितानां शिखरप्रतिबिम्बानां पक्षरुपमा ॥८६॥ विमला -- सेतुपथ के दोनों पार्श्वभाग के शिखरों का प्रतिबिम्ब सागरसलिल में पड़ रहा था, जो वायु द्वारा ( उत्पन्न लहरों से ) अत्यन्त चञ्चल था, अतएव सेतुपथ पंख फैलाकर जल के ऊपर संचरण करते हुए पर्वत के समान दिखाई देता था ।।८६॥ अथ सेतो सिद्धे रामरावणयोरवस्थामाह अरई थोरूसासा णिवाणासो विवण्णदा दौम्यल्लम् । से उम्मि रइज्जन्ते रामादो रावणम्मि संकन्ताई ॥७॥ [ अरतिः स्थूलोच्छ्वासा निद्रानाशो विवर्णता दौर्बल्यम् । सेतो रच्यमाने रामाद्रावणे संक्रान्तानि ॥] अरतिः सीतालाभप्रतिबन्धकसमुद्रसेतोरनुत्पत्त्या विषयान्तरेष्वप्रीतिः, ममापि प्रिया रक्षोगृहे तिष्ठतीति मनःखेदात्स्थूला उदगता: श्वासाः, सीता कथं वा तिष्ठति, किं वा चेष्टते, इत्यादितद्गतमनस्कत्वान्निद्रानाशः, परापहृतवधूकत्वेन लज्जया विवर्णता, किं स्यात्को वा उपायः कर्तव्य इत्यादिनन्तावशादौर्बल्यम्, एवंप्रकारेणतानि सर्वाणि सेतावनध्यवसायेन प्रथमं रामे स्थितानि । पश्चात्सेतो रच्यमाने सति समुद्रकृतप्रत्यूहेन रामागमनं न स्यादित्यध्यवसितत्वेन प्रागस्पृष्ट रावणे संक्रान्तानि सेतुसिद्धयानध्यवसितत्वात् । तथा हि-समुद्र सेतुः केनापि न दत्तपूर्व इति मनःक्षोभादरतिः, समुद्रसेतुविदितसामर्यो रामः कदाचिन्मामपि हन्यादिति शङ्कया स्थूलोच्छ्वासाः,किं स्यात्को वोपायः कर्तव्य इति विचारेण निद्रानाशः, लङ्कापरिखायमाणसमुद्रावस्कन्दो मया वारयितुं न पारित इति लज्जया विवर्णता, त्रैलोक्यविजित्वरस्य ममापि मानभङ्गः प्रसक्त इति चिन्तावशाद्दौर्बल्यमित्यर्थः । अत्र पूर्व रामादागन्तुमुत्सुकान्यप्येतानि समुद्र कृतप्रतिबन्धादनागतानि, सति सेतौ तद्रूपवर्मला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy