________________
३१०]
सेतुबन्धम्
[ अष्टम
विमला---यद्यपि सेतु अभी आधा ही निष्पन्न हुआ था तथापि डाले गये पर्वतों के अभिघात से दूर तक समुद्र के उछलने पर जल से पूर्यमाण होने के कारण पूरा निर्मित-सा ज्ञात होता था और सेतु की अर्ध-रचना की वास्तविकता का पता तब लगता था जब वह जल लौट कर पुनः समुद्र में चला जाता था ।। ५३ ॥ अथ महावराहस्य चरणगापूरममाह
अवि पूरइ पाआलं ण अ कुविअविसागइन्दगमणविहाआ। उअहिविइण्णोप्रासा पूरेन्ति महावराहपअनिक्खेवा ॥५४॥ [ अपि पूर्यते पातालं न च कुपितदिग्गजेन्द्रगमनविघाताः ।
उदधिवितीर्णावकाशाः पूर्यन्ते महावराहपदनिक्षेपाः ॥] अपि संभावनायाम् । गिरिभिः पातलमपि पूर्यते, न तु महावराहस्य पदनिक्षेपाः पुरातनानि चरणनिक्षेपस्थानानि पूर्यन्ते । तेषां ततोऽपि महत्त्वादिति भावः । तदेवाह-कीदृशाः । करिमकरास्फालनादिना कुपितानां दिग्गजेन्द्राणां गमनस्य स्वेच्छाचारस्य विघातो येभ्यः । अतीगभीरत्वात् । तथा च जलहस्तिनो भयेन तत्र प्रविश्य तिष्ठन्ति दिक्करिणः प्रवेष्टुं न पारयन्तीति मत्तस्यापि गमनप्रतिबन्ध कत्वेनाति विकटत्वमुक्तम् । कुपितपदेन दिग्गजानां गमनस्य विधाता: परिपन्थिनः । हन्यतेऽनेनेति करणे घमिति केचित् । एवं उदधिना वितीर्णो दत्तोऽवकाशः स्थानं यस्मै । तत्संल्लीनत्वात् । वस्तुतस्तु-उदधये दत्तोऽवकाशो यैः । तस्य तत्रैव विश्रामात् । अनेन महत्तरत्वमुक्तम् ॥५४॥
विमला-पर्वतों से पाताल भले ही पूर्ण हो गया; किन्तु महावराह के पुरातन चरणनिक्षेप स्थान नहीं पूर्ण हुए, जो इतने गम्भीर हैं कि जलगज कुपित दिग्गजेन्द्रों के भय से उनमें प्रविष्ट हो स्थित रहते हैं और दिग्गज उनमें प्रविष्ट नहीं हो पाते तथा जिन्होंने समुद्र को भी ( विश्रामार्थ ) स्थान दिया है ।। ५४ ।। अथ जलस्य नानारूपतामाह
जाअं महिहरमहिअं धातुप्रडक्खलणसरसपल्लवराअम् । दुमभङ्गतुवरसुरहिं उपज्जन्तमइरं न साअरसलिलम् ।।५।। [ जातं महीधरमथितं धातुतटस्खलनसरसपल्लवरागम् ।।
द्रुमभङ्गतुवरसुरभि उत्पद्य[मान]मदिरमिव सागरसलिलम् ॥] सागरस्य सलिलं महीधरेण मथितं सदुत्पद्यमाना मदिरा यस्मात्तथाभूतमिव जातम् । मथन चिह्नमाह-कीदृशम् । धातूनां गैरिकाणां तटस्य स्खलनात्स रसपल्लवस्येव रागो लौहित्यं यस्य । यथा मदिरायामपितमधूकपल्लवादिरागो जायते, तथा प्रकृतेऽपि गिरिगरिक राग इत्यर्थः । एवं पर्वतीयद्रुमाणां भङ्गेनावर्तादिजातेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org