________________
भाश्वासः ]
रामसेतु प्रदीप - विमलासमन्वितम्
[ ३०५
हनूमान् यं यं गिरिमानयति । कीदृशम् । रविरथस्य चक्रेण परिमृष्टं परिघृष्टं शिखरं यस्य तं तुङ्गम् । 'परिहट्टसहं' इति पाठे परिघर्षण सहमित्यर्थः । तं तं वामकरेणोत्तम्भितं हनूमतो हस्तादुत्थापितं नलः समुद्रे रचयति । सेतो यथोचितस्थाने संनिवेशयतीत्यर्थः । हनूमदानीतस्य तादृशपर्वतस्य पृष्ठतो वामकरेणोत्थापनमहंकारं बलं च गमयति ॥४३॥
विमला - हनुमान्, रविरथ के चक्र से परिघृष्ट शिखर वाले ( तुङ्गतम ) जिस-जिस पर्वत को ले आते, नल उस-उस पर्वत को लीलापूर्वक बायें हाथ से उठाकर समुद्र में यथोचित स्थान पर संनिविष्ट कर देता था ॥ ४३ ॥ समुद्रशैलोत्कर्षमाह
वित्थअसर कमल सिरे सेले दरघडिग्रसेउस कमल सिरे । जलणिहिसे आलग्गा पाआलधरा धरेन्ति से अलग्गा ॥ ४४ ॥ [ विस्तृतसरः कमलशिरसः शैला दरघटितसेतु संक्रमलसनशीलान् । जलनिधिसेवालग्नाः पातालधरा धारयन्ति शैवालाग्रयाः ॥ ] पातालस्य धराः पर्वता दरघटिते सेतुरूपसंक्रमे लसनशीलान् श्लिष्टान् कान्तिमतो वा शैलान्धारयन्त्यवष्टभ्नन्ति । तदुपर्यमी स्थिरतामासादयन्तीत्यर्थः । 'लस श्लेषणक्रीडनयोर्लससंक्रान्ती च ' धातुः । कीदृशान् । विस्तृतानां सरसां कमलानि पद्मानि जलानि वा यत्र तादृशानि शिरांसि येषाम् । विस्तृतानि प्रफुल्लानि विस्तारशालीन वा सरः कमलानि पद्मानि जलानि वा यत्र तादृशानि शिरांसि येषामिति वा । पूर्वनिपातानियमाद्विस्तृतानि कमलानि यत्र तादृशानि सरांसि शिरसि येषा - मिति वा । अनेन महत्त्वमुक्तम् । पातालधराः कीदृशाः । जलनिधिसेवायां लग्नाः । तदन्तर्वर्तिन इत्यर्थः । यद्वा जलनिधिशैवाला लग्नाः शैवाला : प्रवालास्तत्र नग्नास्तत्संबद्धाः । एवं शैवालैरग्रचाः श्रेष्ठाः । शैवालमग्रे येषामित्यर्थेन शैवालाग्रा इति वा । तत्पूर्णा इत्यर्थः । तेन चिरंतनत्वमुक्तम् । यद्वा शैवालानामग्ररूपाः । तेन शैवालापेक्षया क्षुद्राणामेव पर्वतानामेतादृश महत्पर्वतधारणक्षमत्वमिति समुद्रोत्कर्षः । तदुक्तं बधिरकविराजेन - 'मैनाकोऽपि गभीरनीर विलुठत्पाठीन पृष्ठोल्लसच्छेवालाकुरकोटिकोटरकुटीकुडघान्तरे निर्वृतः' इति || ४४ ||
विमला - प्रफुल्ल कमलपूर्ण सरोवरों से सुशोभित शिरोभाग वाले ( विशालतम एवं तुङ्गतम ) पर्वत जो ईषत् सम्पन्न सेतुरूप संक्रम ( संकीर्ण मार्ग ) पर संश्लिष्ट थे उन्हें समुद्रान्तर्वर्ती शैवालपूर्ण पातालीय पर्वतों ने अपने ऊपर रोककर हिलने-डुलने नहीं दिया ॥ ४४ ॥
मणीनामवस्थामाह
गमणिप्रत्तन्तजल र अविव्वन्ती ।
वेला अडसंबद्धा हल्लन्त किरणविडवा अन्दोलइ मरगअप्पहावणराई ||४५||
२० से० ब०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org