________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[२६३
अथ नलस्योत्तरमाह
तो पवअबलाहि फडं विगाणासङ्गणिव्वलन्तच्छाओ। पवअवइसंभमुम्मुविइण्णभअहित्यलोअणो भणइ णलो ॥१८॥ [ ततः प्लवगबलात्स्फुटं विज्ञानाध्यवसायनिर्वलच्छायः ।
प्लवगपतिसंभ्रमोन्मुखवितीर्णभयोद्विग्नलोचनो भणति नलः ॥] ततः सुग्रीवाज्ञोत्तरं स्फुटं नलो भणति । कीदृक् । प्लवगबलाद्विज्ञानस्य सेतुरचन शिल्पस्याध्य वसायेनावश्यंभाविफलनिश्चयेन' निर्वलन्ती पृथग्भवन्ती छाया कान्तिर्यस्य । शिल्पचातुर्येण शेषवानरापेक्षया स्फुरद्रूप इत्यर्थः । एवं प्लवगपतये संभ्रमेणादरेणोन्मुखं सम्मुखं यथा स्यादेवं वितीर्णे अपिते भयेनोद्विग्ने लोचने येन सः । सुग्रीवं पश्यन्नित्यर्थः । प्रभुः कर्माकरणे शास्तिमाचरेदिति भयम् । यद्वा प्लवगपतिना संभ्रमोन्मुखं यथा स्यादेवं वितीर्ण भयोद्विग्ने लोचने यस्मिन् । तेन सादरं दृष्ट इत्यर्थः । शिल्पनिगुणोऽप्ययमनध्यवसायं प्रकाशयेदिति भयम् । 'विज्ञानं शिल्पशास्त्रयोः' इत्यमरः ॥१८॥
विमला-तदनन्तर शिल्पचातुर्य के कारण शेष वानरों की अपेक्षा उद्दीप्त रूप वाले नल ने भयोद्विग्न नेत्रों को वानरपति के आदरार्थ सम्मुख कर ( वक्ष्यमाण वचन ) कहा ॥१८॥ अथाष्टभिरुत्तरस्वरूपमाह
भण्णइ पबंगपुरो रहुणाहस्स अ पवंगवइ वीसत्यम् । तुह से उबन्धजणिआ ममम्मि संभावणा ग होहिइ अलिआ॥१६॥ [ भणति प्लवंगपुरतो रघुनाथस्य च प्लवंगपते विश्वस्तम् ।
तव सेतुबन्धजनिता मयि संभावना न भविष्यत्यलीका ।।] स नलः प्लवगानां रघुनाथस्य च पुरतो विश्वस्तं यथा स्यादेवं भणति । कि तदाह-हे प्लवगपते ! मयि विषये सेतुबन्धेन जनिता तव संभावना प्रतिष्ठा अलीका न भविष्यति किंतु सत्यैव । सेतुर्मया बद्धव्य एवेति भावः ॥१६॥
विमला-उस नल ने वानरों तथा श्रीरघुनाथ जी के सामने विश्वासपूर्वक कहा-वानरपते ! मेरे विषय में तुम्हारी सेतुबन्धजनित सम्भावना ( प्रतिष्ठा ) मिथ्या नहीं होगी ॥१६॥ 'खविओ वाणरलोओ' इति पूर्वोक्तेः प्रत्युत्तरमाह
खविओ पव्व अणिवहो दलिों व रसाअलं धुवो व्व समुहो। जीअं व परिच्चत्तं अज्ज व संभावणा तुहं णिवढा ॥२०॥ [क्षपितः पर्वतनिवहो दलितं वा रसातलं धुतो वा समुद्रः ।। जीवो वा परित्यक्तोऽद्य वा संभावना तव निव्यू ढा ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org