________________
२६२] सेतुबन्धम्
[ अष्टम [धूमायन्त इवास्याद्यापि पातालदेहरालग्नाः ।
आवर्त्यमानजलाहतसशब्दविध्यापितहुतवहा रामशराः ।। अस्य समुद्रस्य पातालरूपं यद्देहमेक देशस्तत्र दूरं व्याप्य । आ अत्यर्थेन लग्नाः संबद्धा रामशरा अद्यापि धूमायन्त एव न तु निर्वाणतां गताः। कीदृशाः । आवय॑मानेन' क्वथ्यमानेन जलेनाहताः स्पृष्टाः सन्तः सशब्दं यथा स्यादेवं विध्यापिता अप्रौढशिखतां नीता हुतवहा येषां ते। जलसंबन्धेन वह्न: शब्दो धूमश्च भवतीत्यर्थः । तथा चाकारितसेतुरनात्मज्ञः समुद्रः पुनर्नाशमेव लप्स्यत इति भावः । यद्वाद्यापि धूमायन्त इत्यचिरोद्गताविस्मृतरामशरपराभवः सेतुपथं कारयिष्यत्येवेति नलप्रोत्साहनम् । सशब्द इत्यत्र 'समुद्द' इति पाठे आवर्त्यमानजलेनेति करणम् । आहतसमुद्रेण विध्यापितो हुतवहो येषामित्यर्थः ।।१६।।
विमला-इस ( समुद्र ) के पातालरूप शरीर में दूर तक लगे हुये राम के शरों की अग्नि यद्यपि उबलते जल के स्पर्श से सशब्द बुझायी गयी है तथापि बे शर ( पूर्ण रूप से बुझे नहीं ) अब भी धूमायित ही हैं ॥१६॥ नलं प्रति नियोगमाहतं बन्धसु धीर तुम सेउं अज्जे प्र जाव दूरन्तरिमा । एक्कं मलअसुवेला होन्तु दुहा अ विप्रडा समुद्दद्धन्ता ॥१७॥ [ततो बधान धीर त्वं सेतुमद्यैव यावदूरान्तरितौ ।
एकं मलयसुवेलौ भवतां द्विधा च विकटौ समुद्रार्धान्तौ ॥ ] हे धीर ! सामर्थ्यऽपि धैर्यमवलम्ब्य किमप्यकुर्वाण, निपुण वा, ततः पूर्वोक्तहेतोरद्यैव सेतु बधान । यावदिति वाक्योपसंहारे । दूरान्तरितौ दूरं व्याप्य व्यवहितो मलयसुवेलावेकं वस्तु भवताम् । तावद्रव्यापिसेतुकत्वादिति भावः । एवं विकटौ समुद्रस्यार्धान्तौ वामदक्षिणभागौ द्विधा च भवताम् । सेतुच्छिन्नमध्यकत्वेन द्विखण्डावित्यर्थः । द्वा तावद्रं सेतुं बधान । तावत्कतरत्, यावद्वयाप्यान्तरिता अन्तरमन्तरा वा मध्यभागस्तत्प्राप्ताः समुद्रार्धान्ताः समुद्रप्रदेशाः । यावत्समुद्रपरिमाणं तावद्वधानेत्यर्थः । तथा सति द्विभावो द्वित्वं तेन विकटौ प्रकटौ। ख्याताविति यावत् । मलयसुवेलावेकं भवताम् । तटद्वयस्थितत्वादिति भावः । यद्वा यावदिति यावता दूरान्तरितौ मलयसुवेलावेकं भवताम्, अथ च दूरं व्याप्यान्तरिता विस्तीर्णाः समुद्रप्रदेशा द्विभागेन विकटाः ख्याता भवन्तु । द्विवचने बहुवचनं नित्यमिति तिङ्सुपोरपि वचन श्लेष इति मदुन्नीतम् । यद्वा युगम् ॥१७॥
विमला-अतः हे धीर ! तुम ऐसा सेतु बाँधों कि एक-दूसरे से अत्यन्त दूर स्थित मलयगिरि और सुवेल गिरि एक हो जायँ तथा समुद्र बायें और दाहिने दो विकट भागों में ( मध्यगत सेतु से ) विभक्त होकर दो खण्ड हो जाय ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org