________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[२६१
[क्षपितो वानरलोको दूरस्थितविरलपर्वतं महीवेष्टम् ।
न च दृश्यते सेतुपथो मा खलु नमेद्गुरुकं पुना रामधनुः ॥] वानरलोक: क्षपितोऽवसन्नः । दूरे स्थिता विरलाः स्वल्पाः पर्वता यत्र एतादृशं महीपृष्ठं जातम् । संनिधौ सर्वेषां दूरे कुतश्चित्कुतश्चित्कियतां च शैलानां समुद्र एव क्षिप्तत्वात् । तथापि सेतुपथो न च दृश्यते न वृत्तः । खलुहेतौ। ततो हेतोः पुनरपि रामधनुः कर्तृ मा नमेत् समुद्रताडनाय मा कृष्टं भवेत् । तथा सत्येकवारं धनुनमने समुद्रस्य क्षतमासीदतः परं प्राणा एव यास्यन्तीति भावः । यद्वा यूयं रामधनुः पुनरपि मा नमयत तथा सति युष्मानेव ताडयेत् । तथा च सेतुं सर्वात्मना बध्नीतेति भावः ।।१४।।
विमला-वानर परिश्रान्त हो गये, पृथिवी पर दूर-दूर तक भी बहुत कम पर्वत रह गये तथापि सेतुपथ सम्पन्न नहीं हुआ, अत: पुन: ( समुद्रतारनार्थ) राम का धनुष उद्यत न हो ॥१४॥ सेतोरवश्यंभावित्वमाह--
मइरा मुद्धमिअङ्को अमअं लच्छी सकोत्थहं दुमरप्रणम् । कि सेउबन्धलहुअं जं वोत्तूण रमणारेण ण दिण्णम् ॥१५॥ [ मदिरा मुग्धमृगाङ्कोऽमृतं लक्ष्मीः सकौस्तुभं द्रुमरत्नम् ।
किं सेतुबन्धलघुकं यदुक्त्वा रत्नाकरेण न दत्तम् ॥] मदिरा वारुणी। मुग्धो बालो मृगाङ्कः शशी। सुधा । लक्ष्मीः । द्रुमाः पारिजातादयस्त एव रत्नम् । द्रुमेषु रत्नमिति वा । मिलितानामेकरत्नत्वप्रतिपादनार्थमेकवचनम् । एतत्सर्वम् । किं वितर्के प्रश्ने वा। सेतुबन्धाल्लघुक मल्पीयः यत्सेतुबन्धस्वरूपं रत्नाकरेणोक्त्वाप्यङ्गीकृत्यापि न दत्तम् । तानि त्वनुक्त्वैव दत्तानीति भावः । यद्वा एतत्सर्व सेतुबन्धाल्लघुकमल्पमूल्यं किम् । अपि तु नाल्पमूल्यं किं तु बहुमूल्यमेव । यन्मदिरादिकं नकारस्यापकर्षणादनुक्त्वापि रत्नाकरेण दत्तम् । तथा च महाधमपि मदिरानुक्त्वा चेद्दत्तं तदा सेतुबन्धमल्पीयांसमुक्त्वापि न दास्यति किं तु दास्यत्येवेत्यध्यवस्यत इति भावः। दत्तमिति 'नपुंसकमनपुंसकेन' इत्येकवद्भावेन लिङ्गव्यत्ययेन वा ॥१५॥
विमला-मदिरा, बालचन्द्र, सुधा, लक्ष्मी, पारिजातादि द्रुमरत्न आदि क्या सेतुबन्ध से लघु हैं, जो समुद्र ने कह कर भी नहीं दिया ॥१५॥ समुद्रस्य वृत्तं पराभवमाह
धूमाअन्ति च्चिअ से अज्ज वि पाालदेहरालग्गा। प्राअट्टन्तजलाहअससद्दविज्झविग्रहुअवहा रामसरा ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org